________________
१७३
. स्याद्वादमञ्जरीसहिता . श्लोक २२ दिकण्टकोद्धारः स्वयमभ्यूह्यः । इत्येवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपन्नसाधनवाक्यान्यपि-आस्तां तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्याप, कुवादिकुरङ्गसनासनसिंहनादाः कुवादिनः कुत्सितवादिन एकांशग्राहकनयानयानुयायिनोऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । यथा सिंहस्य नादमप्याकर्ण्य कुरङ्गास्त्रासमासूत्रयन्ति, तथा भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्त्रस्नुतामश्नुवते-प्रतिवचनप्रदानकातरतां बिभ्रतीति यावत् , एकैकं त्वदुपज्ञं प्रमाणमन्ययोगव्यवच्छेदकमित्यर्थः।
अत्र प्रमाणानि इति बहुवचनमेवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम् । एकैकस्य मूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकानन्तगुणार्थत्वात् । तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति.' इति न्यायाद् इतिशब्देन प्रमाणबाहुल्यसूचनात् पूर्वार्दै एकस्मिन् अपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनम् । इति काव्यार्थः ॥ २२ ॥ ___अनन्तरमनन्तधर्मात्मकत्वं वस्तुनि साध्यं मुंकुलितमुक्तम्, तदेव सप्तभंङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह
१ कण्टकोद्धारः-दूषणोद्धारः। २ 'त्रासताम्' इति क. ख. पुस्तकयोः पाठः । । ३ त्वत्त एव प्रथमत उद्गमो यस्येत्यर्थः । ४ मुकुलितं-संक्षिप्तम् ।