________________
श्लोक २३
अन्ययोगव्यवच्छेदिका अपर्ययं वस्तु समस्यमान__ मद्रव्यमेतच विविच्यमानम् । आदेशभेदोदितसप्तभङ्गम
दीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ समस्यमानं संक्षेपेणोच्यमानं वस्तु, अपर्ययमविवक्षितपर्यायम् वसन्ति गुणपर्याया अस्मिन्निति वस्तु-धर्मा-धर्मा-काश-पगल-कालजीवलक्षणं द्रव्यषट्कम् । अयमभिप्रायः-यदैकमेव वस्तु आत्मघटादिकं चेतनाचेतनं सतामपि पर्यायाणामविवक्षया द्रव्यरूपमेव वस्तु वक्तुमिष्यते । तदा संक्षेपेणाभ्यन्तरीकृतसकलपर्यायनिकायत्वलक्षणेनाभिधीयमानत्वात् अपर्ययमित्युपदिश्यते-केवलद्रव्यरूपमेवे इत्यर्थः, यथात्मायं घटोऽयमित्यादि पर्यायाणां द्रव्यानतिरेकात् , अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहादयो द्रव्यमात्रमेवेच्छन्ति, पर्यायाणां तदविष्वग्भूतत्वात् । पर्ययः, पर्यवः, पर्याय इत्यनान्तरम् । अद्रव्यमित्यादि-चः पुनरर्थे, स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्चविविच्यमानं चेति, विवेकेन पृथपतयोच्यमानं पुनरेतद् वस्तु अद्रव्यमेव-अविवक्षितान्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः ।
यदा ह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्याय विचार्यते, तदा पर्याया एव प्रतिभासन्ते, न पुनरात्माख्यं किमपि द्रव्यम् । एवं घटोऽपि कुण्डलौष्ठपृथुबुध्नोदरपूर्वापरादिभागाद्यवयवापेक्षया विविच्यमानः पर्याया एव, न पुनर्घटाख्यं तदतिरिक्त वस्तु । अत एव पर्यायास्तिकनयानुपातिनः पठन्ति
१ एतल्लक्षणानि (१७१) पृष्ठ उक्तानि । २ ' एव' इति रा. पुस्तके नास्ति । ३ प्रतिशब्दा इत्यर्थः ।