________________
१७५
श्लोक २३
"भागा एव हि भासन्ते संनिविष्टास्तथा तथा । तद्वान् नैव पुनः कश्चिन्निर्भागः संप्रतीयते " ॥ १ ॥ इति । ततश्च द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यनयार्पणया पर्यायनयानर्पणया च द्रव्यरूपता, पर्यायनयार्पणया द्रव्यनयानर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता । अत एवाह वाचकमुख्यः - " अर्पितानर्पित सिध्देः" इति । एवंविधं द्रव्यपर्यायात्मकं वस्तु त्वमेवादीदृशस्त्वमेव दर्शितवान्, नान्य इति काकावैधारणावगतिः ।
स्याद्वादमञ्जरीसहिता
"
नन्वन्याभिधानप्रत्यययोग्यं द्रव्यम् अन्याभिधानप्रत्ययविषयाश्च पर्यायाः । तत्कथमेकमेव वस्तूभयात्मकम् इत्याशङ्कां विशेषणद्वारेण परिहरति- आदेशभेदेत्यादि - आदेशभेदेन सकलादेशविकलादेशलक्षणेन आदेशद्वयेन, उदिताः प्रतिपादिताः, सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनबन्धनता निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्त्वमुपदर्शितम्, तर्हि किमर्थं तीर्थान्तरीयाः तत्र विपद्यन्ते इत्याह-बुधरूपवेद्यम् इति बुध्यन्ते यथावस्थितं वस्तुतत्त्वं सारैतरविषयविभागविचारणया इति बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिकाधिगमिकान्यतरसम्यग्दर्शन विशदीकृतज्ञ नशालिनः प्राणिनः, तेनैव वेदितुं शक्यं वेद्यं परिच्छेद्यम् । न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाकशाणीनिशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यादर्शनवासना
,
१ तत्त्वार्थसूत्र ५ । ३१ । उमास्वातिः - वाचकमुख्यः ।
२ कार्थेन निश्चयताबोधनम् ।
३ ' इत्याशङ्कय ' इति ख. घ. ह. रा. पुस्तकेषु पाठः ।
४ इदं सारमुत्कृष्टम् इदमसारं निकृष्टमिति विषयविभागः ।
५ शाणा-रत्नादिनिघर्षणशिला सा चात्र स्वशास्त्रतत्त्वाभ्यासपरिपाकस्तत्र निशाता तीक्ष्णीकृता बुद्धिर्येषां तैरित्यर्थः ।