________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
१७६
दूषितमतितया यथावस्थितवस्तुतत्त्वानवबोधेन बोधरूपत्वाभावात्। तथा चागमः"सदसदविसेसणाउ भवहेउजदिच्छिओवलंभाउ।
णाणफलाभावाउ मिच्छादिहिस्स अण्णाणं" ॥१॥ __ अत एव तत्परिगृहीतं द्वादशाङ्गमपि मिथ्याश्रुतमामनन्ति । १ 'यथास्थित' इति क, ख, रा. पुस्तकेषु पाठः ।।
२ विशेषावश्यक गाथा ११५ । सदसदविशेषणोद्भवहेतुयदृच्छोपलम्भात् । ज्ञान फलाभावान्मिथ्यादृष्टरज्ञानम् ॥१॥ इति छाया ।
३ द्वादस्याङ्गस्य मूलत उपदेष्टा श्रीसर्वज्ञो वीतरागः । यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति । स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्रातिमनुभवन्ति । सर्वज्ञवचनानि संप्रधार्य महाचार्यैस्तद् न्यबन्धि । द्वादशाङ्गनामानि चैवम्-१ आचाराङ्गम् २ सूत्रकृतं ३ स्थानाङ्गं ४ समवाययुक् । ५ पंचमं भगवत्यंगं ६ ज्ञाता धर्मकथापि च ॥१५७|| ७ उपासका ८ न्तकृदनुत्तरोपपातिकादृशाः । १० प्रश्नव्याकरणं चैव ११ विपाकश्रुतमेव च ॥१५८॥ १२ द्वादशं पुनदृष्टिवादः ॥१५९॥ अत्रान्तिमस्य दृष्टिवादस्य व्युच्छेदात् एकादशैवाङ्गानि एकादशाङ्गेतिसंज्ञया श्वेताम्बरेषु प्रसिद्धानि ।
(आचरणमाचारः । आचर्यते आसेव्यत इति वा शिष्टाचरितो ज्ञानादि 'आदिशब्दादर्शनाचारचारित्राचारतप आचारवीर्याचाराणां ग्रहणम्' आसेवनविधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गं च । आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ । तत्र प्रथमो नवाध्यायनात्मकः ( तत्र सप्तमाध्यायनम् व्युच्छिन्नम् ) । द्वितीयः षोडशाध्ययनात्मकः । एवं पंचविंशतरेध्ययनानां पंचविंशतिशतसंख्यांकाश्लोकाः । तत्र श्रीशीलांकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा ३६८) श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० श्लोकपरिमिता ।।
(२) सूचनात्सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् तस्य द्वौ श्रुतस्कंधौ । तत्र प्रथमः षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० । श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा २०८) श्लोकसंख्या २५० संपूर्णणंख्या २५२०० परिमिता । १५८३ संवत्सरे श्रीहेमविमलसूरिभिर्दीपिका प्रणीता । एतत्संख्या तु पूर्वोक्तसंख्यायां नान्तर्भाविता ।