________________
स्याद्वादमञ्जरी सहित
श्लोक २३
तेषामुपपत्तिनिरपेक्षं यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात् । सम्यग्हष्टिपरिगृहीतं तु मिथ्याश्रुतमपि सम्यक् श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशानुसारिप्रवृत्तितया मिथ्या श्रुतोक्तस्याप्यर्थस्य यथावस्थितविधिनिषेधविषयतयोन्नयनात् । तथा हि किल वेदेअजैर्यष्टव्यम् " इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाच
१७७
""
(३) तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं एकादिदशान्तसंख्याभेदो वा स्थानं तत्प्रतिपादको ग्रन्थोऽपि स्थानं तच्च तदंगं च स्थानांगम् । अस्य दशाध्ययनानि ( स्थानानि ) । मूलश्लोकसंख्या ३७७० श्री अभयदेवसूरिकृतटीका १५२५० संपूर्ण - संख्या १९०२० ।
(४) समवायनं समवायः एका दिशतान्तसंख्या समाविष्टानां पदार्थानां सङ्ग्रहः तखे । तुश्च ग्रन्थोऽपि समवायः । मूलश्लो० १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ - पूर्वाचार्यकृता चूर्णि : ४०० संपूर्णसंख्या ५८४३ श्लोकपरिमिता ।
(५) भगवतीति पूजाभिधानं व्याख्याप्रज्ञतेः पंचमांगस्य सा चासौ अंगं च भगवत्यङ्गम् । तस्याः ४१ शतकानि । मूलश्लो. १७७५२ श्री अभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० संपूर्णसंख्या ३८३६८ श्लोकपरिमिता | संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन १२००० श्लोकपरिमिता लघुवृत्तिः कृता ।
(६) ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको ग्रन्थोऽपि तथा । एकोनविंशतिरध्ययनात्मकः । मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या ९७५२ श्लोकपरिमिता ।
(७) उपासकाः श्रावकाः तद्गत क्रियाकलापप्रतिबद्धा दशा दशाध्ययनरूपा उपासक दशाः बहुवचनान्तमेतद्गन्थनाम । दशाध्ययनात्मक : मूलश्लो. ८१२ श्रीअभयदेवसूः रिकृतटीका ९०० संपूर्णसंख्या १७१२ श्लोकपरिमिता ।
(८) अंतो विनाशः स च कर्मणः तत्फलभूतस्य वा संसारस्य तं कुर्वन्ति ये तीर्थकरादयस्तेऽन्तकृतः तेषां दशाः प्रथमवर्गो दशाध्ययनात्मकत्वात् तत्संख्यया अंतकृद्दशाः । अध्ययनानि नवतिः ( ९० ) । मूलश्लो. ९०० श्रीमदभयदेवसूरिकृतटीका ३०० संपूर्णसंख्या १२०० श्लोकपरिमिता ।
( ९ ) न विद्यते उत्तरः प्रधानोऽस्मादित्यनुत्तर उपपतनं उपपातो जन्म अनुत्तरप्रध नः संसारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयवैजयन्त जयंता पराजित सर्वार्थसिद्ध विमानपंचकजन्मानो देवाः तद्वक्तव्यता प्रतिबद्धदशाः
२३