________________
१७८
श्लोक २३
अन्ययोगव्यवच्छेदिका कतया व्याचक्षते, सम्यग्दृशस्तु जन्मापायोग्यं त्रिवार्षिकं यवत्रीह्यादि, पञ्चवार्षिकं तिलमसूरादि, सप्तवार्षिकं कङ्गसर्षपादि । धान्यपर्यायतया पर्यवसाययन्ति । अत एव च भगवता श्रीवर्द्धमानस्वामिना, "विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञास्ति' इत्यादिऋचः श्रीमदिन्द्रभूत्यादीनां द्रव्यगणधरदेवानां जीवादिनिषेधकतया प्रतिभासमाना अपि तद्व्यवस्थापकतया व्याख्याताः ।
तथा स्मार्ता अपिदशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । अध्ययनानि त्रयोविंशतिः मूलश्लो० २९२ श्रीअभयदेवसूरकृतटीका १०० संर्णसंख्या ३९२ श्लोकपरिमिता । .
(१०) प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् । दशाध्ययनात्मकम् । मूल श्लो. १२५० श्रीअभयदेवसूरिकृतटीका १६० संपूर्णसंख्या ५८५० श्लोकपरिमिता ।
(११) विषचनं विपाकः शुभाशुभकर्मपरिणामः तत्प्रतिपादकं श्रुतं विषाकश्रुतम् । विंशत्यध्ययनात्मकः । मूलश्लो. १२१६ श्रीअभयदेवसूरिकृतटीका ९०० संपूर्णसंख्या २११६ श्लोकपरिमिता ।
(१२) दृष्टयो दर्शनानि तासां वदनं दृष्टिवादः दृष्टीनां पातो यत्रासौ दृष्टिपातोऽपि सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः । सर्वमिदं प्रायो व्यवच्छिन्नम् । एकादशांगानां मूलसंख्या ३५६५९ श्लोकपरिमिता । टीका च ७३५४४ ( श्रीअभयदेवसू रिणा (नवांगीवृत्तिकारण) तृतीयादेकादशांगपर्यन्ता कृता ४८६९४ प्रथमद्वितीयाङ्गस्य श्रीशीलांकाचार्येग कृता च टीका २४८५० श्लोकपरिमिता) चर्णिः २३७०० नियुक्तिः ७०० संपूर्णसंख्या १३२६०३ श्लोकपरिमिता।
१ बृ. २।४।१२ . २ १ इंद्रभूति २ रमिभूति ३ वायुभूतिः सहोद्भवाः । ४ व्यक्तः ५ सुधर्मा ६ मण्डित ७ मौर्यपुत्रौ सहोदरौ ॥ ८ अकम्मितो ९ ऽचलभ्राता १० मेतार्यश्च ११ प्रभासकः । इत्येकादश गणधराः।।
३ अनुतरज्ञानदर्शनादिधर्मगणं धरतीति--गणधरः ।।
४ यदा भगवान्महावीरः केवलज्ञानदर्शनोत्पत्तिनंतरं विहरन् अपापापुर्या (प्राक्किल तस्या नगर्या अपापति नमःसीत् भगवांस्तत्र कालगतत्वात् देवैस्तु पापेति उक्तं) (अपापायां मध्यमायां) महसेनवने जगाम तदा तत्र सोमिलायों नाम ब्राह्मणः