________________
१७९
स्याद्वादमञ्जरीसहिता
श्लोक २३
|
स यज्ञं यष्टुमुद्यतः । तत्र चैकादशोपाध्यायाः खल्वागताः तेषां च संदेहाः क्रमेण १ जीवः २ कर्म ३ तज्जीवतच्छरीरे ४ पंचभूलानि सन्ति न वा ५ यो यादृशः स तादृशः ६ बंधः ७ देवः ८ नैरयिकः (नारक) ९पुण्यं १० परलोकः ११ मोक्षः इति । ते चैक देशापि द्विजा एकेकसन्देहसद्भावेऽपि सर्वज्ञत्वाभिमानक्षतिभयात् परस्परं न पृच्छन्ति । अत्रान्तरे वने च भगवन्नमस्यार्थमागच्छतः । सुरासुरान्विलोक्य ते चिन्तयन्ति अहो यज्ञस्य महिमा यदेते सुराः साक्षात्समागताः । अथ तान् यज्ञमण्डपं विहाय प्रभुपार्श्व च गच्छतो विज्ञाय द्विजा विषेदुः ततोऽमी सर्वज्ञं वंदितुं यान्तीति जनश्रुत्या श्रुत्वा इन्द्रभूतिः सामर्षश्चिन्तयामासिवान् अहो मयि सर्वज्ञे सत्यपि अपरोऽपि सर्वज्ञं स्वं ख्यापयति दुःश्रवम् एतत्कर्णकटु कथं नाम श्रूयते । किं च कदाचित्कोऽपि मूर्खः केन - चिर्त्तेन वञ्चयते अनेन तु सुरा अपि वंचिताः यदेवं यज्ञमण्डपम् मां सर्वज्ञं च विहाय तत्समीपं गच्छन्ति | 'अहो सुराः कथं भ्रान्तास्तीर्थम्भ इव वायसाः । कमलाकरवद्भेकाः मक्षिकाश्चन्दनं यथा ||१|| करभा इव सद्वृक्षान् क्षीरान्नं रूकरा इव । अर्कस्य लोकवत् धूकः स्त्यक्त्वा यागं प्रयांति यत् ||२||' अथवा यादृशोऽयं सर्वज्ञस्तादृशा एवैते अनुरूप एव संयोगः । तथापि नाहं एतस्य सर्वज्ञाटोपं सहे यतः " व्योम्नि सूर्यद्वयं किं स्यात् गुहायां केसरिद्वयम् । प्रत्याकारे च खड्गौ द्वौ किं सर्वज्ञावहं स च " ॥१॥ ततो भगवन्तं वंदित्वा प्रतिनिवर्तमानान् सोपहासं जनान् पप्रच्छ भो ! भो ! दृष्टः स सर्वज्ञः ? कीदृश्रूपः ? किंस्वरूपः ? इति । जनैस्तु “यदि त्रिलोकीगणनापरा स्यात्, तस्याः समाप्तियदि नायुषः स्थात् । पापराध्य गणितं यदि स्यात् गणेयनिःशेषगुणोऽपि स स्यात् ॥ १ ॥ " इत्याद्युक्ते सति स दध्यौ “ नूनमेष महाधूर्तो मायायाः कुलमंदिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ॥ २ ॥ मया हि येन वादीन्द्रास्तूष्णीं संस्थापिताः समे । गेहे शूरतरः कोऽसौ सर्वज्ञो मत्पुरो भवेत् १ ||३|| " देवानां च दानवानां च पुरतोऽग्रे तथाविधप्रश्नजालैर्हतप्रतापं कृत्वा क्षणमात्रेण तस्य सर्वज्ञवादं निःशेषमहं नाशयामि । इत्युक्त्वा प्राप्तो भगवत्समीपं दृष्ट्वा च भगवन्तं वीरं त्रैलोक्यपरिवृतं चतुस्त्रिंशदतिशय ( प्र. मी. २२ पृष्ठे द्रष्टव्यम् ) निधिं सशंकितः पुरतोऽवस्थितः आभाषितो सर्वज्ञेन जिनेन हे इंद्रभूते ! गोतम स्वागतमिति जिनेोक्ते स चिन्तयति अहो नामापि मे विजानाति अथवा सर्वज्ञप्रसिद्धोऽहं को मां न जानाति यदि मे हृद्गतं संशयं जानीयात् अथवाऽपनयेत् ततो मे विस्मयो भवेत् इति चिंतयन् पुनरपि भगवता भणितः -
" किमन्ने अत्थि जीवो, उयाहु नत्थित्ति संसओ तुज्जा । वेपयाण य अत्थं न याणसी तेसिमो अत्थो || 35
हे गौतम किं मन्यसे अस्ति जीव उत नास्तीति नन्वयमनुचित एव संशय यतोऽयं संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धन इति । तान्यमूनि वेदपदानि