________________
श्लोक २३
अन्ययोगव्यवच्छेदिका
१८.
" विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यादि " तथा स वै अयमात्मा ज्ञ.नमय इत्यादीनि च एतेषां च वेदपद.न.मयमों भवतश्चेतसि विपरिवर्तते । विज्ञानमेव घनानन्दादिरूपत्वात् विज्ञानघनः स एव एतेभ्योऽध्यक्षतः परिच्छिद्यम नस्वरूपेभ्यः पृथिव्यादिलक्षणेभ्यो भूतेभ्यः समुत्थाय उत्पद्य पुनस्तान्येवानुविश्यति त न्येव भूतानि अनुसृत्य विनश्यति तत्रैवाव्यक्तरूपतया सलीनो भवतीति भावः । न प्रेत्य संज्ञास्ति मृत्वा पुनर्जन्म प्रेत्येत्युच्यते तत्संज्ञास्ति न परलंफसंज्ञास्तीति भावः । ततः कुतो जीवः युक्त्योपपन्नश्चायमर्थ इति ते मतिः । यतो नासो प्रत्यक्षेण परिगृह्यते अतीन्द्रियत्वात् । नाप्यनुम.नेन यतस्तल्लिङ्गलिङ्ग पूर्वकञ्च । न चात्र लिङ्गिना सह सम्बन्धः प्रत्यक्षगम्यो लिङ्गनाऽतीन्द्रियत्वात् । नाप्यनुमानगम्योऽनवस्थाप्रसक्तेस्तदपि हि लिंगलिंगिसम्बन्धग्रहणपूर्वकं तत्रापि चेयमेव वार्ता, इत्यनवस्थानुषङ्गः । नाध्यागमगम्यः परस्परविरुद्धार्थतया तथागमानां प्रमाणत्वाभावात् । तथाहि केचिदेवमाहुः " एतावानेव लोकोऽयं यावदिन्द्रियगोचरः। भद्रे वृकपदं पश्य यद्वदन्त्यबहुश्रुताः ॥१॥ इत्यादि अपरे प्राहुर्न रूपमीक्षवः पुद्गला इत्यादि पुद्गले रूपं निषेधयन्ति । अन्तर्भूत आत्मेत्यर्थः । अन्ये पुनरेवम् " अकर्ता निर्गुणो भोक्ता " इत्यादि । अपरे एवम् " स वै अयमात्मा ज्ञानमय” इत्यादि । न चैते सर्व एव प्रमाणम् । परस्परविरोधात् । व्यर्थाभिधायकपरस्परविरुद्धवाक्यपुरुषव्रातवत् आत्मानं विद्मः किमस्ति नास्तीत्ययं तवाभिप्रायः । तत्र वेदपदानां चार्थ न जानासि च शब्दामुक्तिद्वयं च । तथाहि वेदपदानां अयमर्थः विज्ञानघन एवेति ज्ञाने,पयोगदईनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात आत्मा विज्ञानघनः प्रतिप्रदेशमनन्तविज्ञानपर्यायः संपातात्मकत्वात् वा विज्ञानघन एवशब्दोऽवधारणे विज्ञानघनादनन्यघनत्वात् विज्ञानघन एव एतेभ्यो भूतेभ्यः क्षित्युदकादिभ्यः समुत्थाय कथंचिदुत्पद्येति घटविज्ञानपरिणतो हि आत्मा घटाद्भवति तद्विज्ञानक्षयोपशमनस्य तत्राक्षेपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्यात्वप्रसक्तेरेवं सर्वत्र भावनीयम् । तत उक्तं तेभ्यः समुत्थाय कथंचिदुत्पद्येति पुनस्तानेव भूतानि अनुविनश्यति ते विवक्षितेषु भूतेषु व्यवहितेषु वा आत्मापि तद्विज्ञानघनात्मना उपरमते अन्यविज्ञानात्मना उत्पद्यते यदि वा सामान्यचैतन्यरूपतयाऽवतिष्टत इति न प्रेत्य संज्ञास्ति न प्राकृतिकघटादिविज्ञानसंज्ञाऽवतिष्ठते । सांप्रतविज्ञानोपयोग न नितत्वात् अथवा एवं व्याख्या विज्ञ नघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यतीत्येतन्न यतः प्रेत्य संज्ञास्ति परलोकसंज्ञास्ति यदप्युक्तं नासौ प्रत्यक्षेण परिगृह्यते इति तदप्यसमीचीनमात्मनः प्रत्यक्षसिद्धात्तगुणस्य ज्ञानस्य स्वसंवेदनप्रमाणसिदत्वात्तथाहि स्वसं विदिता एवावग्रहहापायादय उदयन्ते लीयन्ते व ततम्लगस्त स्वसं निकला सम.त्मनः प्रत्यक्षत्वम् । रथ कट गुनगुण तो लगा बदायु - भूतभ्यरसा त्यायेत्य " तः :नस्य स्वसबिादतल्वे ते आत्मनः प्रत्यक्षत्वं ज्ञानस्यात्मत्राणत्वाभावात् तदयुक्तम् भूत