________________
१४७
___स्याद्वादमञ्जरीसहिता
श्लोक १७ ठितः । प्रमाणं. च स्वपरावभासि ज्ञानम्, तच्च प्रमेयाभावे कस्य ग्राहकमस्तु, निर्विषयत्वात् । किं च, एतत् अर्थसमकालम्, तद्भिन्नकालं वा तद्ग्राहकं कल्प्येत । आद्यपक्षे, त्रिभुवनवर्तिनोऽपि पदार्थास्तत्रावभासेरन् । समकालत्वाविशेषात् । द्वितीये तु , निराकारम्, साकारम् , वा तत्स्यात् । प्रथमे, प्रतिनियतपदार्थपरिच्छेदानुपपत्तिः । द्वितीये तु, किमयमाकारो व्यतिरिक्तः , अव्यतिरिक्तो वा ज्ञानात् । अव्यतिरके, ज्ञानमेवायम्, तथा च निराकारपक्षदोषः । व्यतिरेके, यद्ययं चिद्रूपस्तदानीमाकारोऽपि वेदकः स्यात्तथा चायमपि निराकारः साकारो वा तद्वेदको भवेत् इत्यावर्त्तनेनानवस्था । अथ, अचिद्रूपः, किमज्ञातः, ज्ञातो वा तज्ज्ञापकः स्यात् । प्राचीने विकल्पे, चैत्रस्येव मैत्रस्यापि तज्ज्ञापकोऽसौ स्यात् । तदुत्तरे तु, निराकारेण, साकारेण वा ज्ञानेन, तस्यापि ज्ञानं स्यात् , इत्याद्यावृत्तावनवस्थैवेति ।
___ इत्थं प्रमाणाभावे तत्फलरूपा प्रमितिः कुतस्तनी, इति सर्वशून्यतैव परं तत्त्वमिति । तथा च पठन्ति__ "यथा यथा विचार्यन्ते विशीर्यन्ते तथा तथा ।
यदेतद् स्वयमर्थेभ्यो रोचते तत्र के वयम्" ॥१॥ इति पूर्वपक्षः । ...
विस्तरतस्तु प्रमाणखण्डनं तत्त्वोपप्लवसिंहादवलोकनीयम् । ___ अत्र प्रतिविधीयते-ननु यदिदं शून्यवादव्यवस्थापनाय देवानांप्रियेण वचनमुपन्यस्तम् । तत् शून्यम्, अशून्यम् वा ? । शून्यं चेत् । सर्वोपाख्याविरहितत्वात् खपुष्पेणेव नानेन किञ्चित्साध्यते,
१ 'द्वितीयेऽपि' इति क. पुस्तके पाठः । २ 'स्यात्' इति घ. पुस्तके पाठः । ३ अयं ग्रन्थः केन प्रणीत इति न ज्ञायते ।