________________
श्लोक १७ अन्ययोगव्यवच्छेदिक
१४६ णेषु दोषानाविष्कुर्वन्तीत्येवं शीलास्त्वदमूयिनस्तत्रान्तरीयास्तैदृष्टं मत्यज्ञानचक्षुषा निरीक्षितमहो । सुदृष्टं-साधु दृष्टम् । विपरीतलक्षणयोपहासान्न सम्यग् दृष्टमित्यर्थः। अत्राम्यधातोस्ताच्छलिकणक्मातावपि बाहुलकाण्णिन् । असूयास्त्येषामित्यमूयिनस्त्वय्यमूयिनस्त्वदायिन इति मत्वर्थीयान्तं वा । त्वदसूयुदृष्टमिति पाठेऽपि न किश्चिदचारु, असूयुशब्दस्योदन्तस्योदयनाद्यैायतात्पर्यपरिशुध्द्यादौ मत्सरिणि प्रयोगादिति । .
इह शून्यवादिनामयमभिसंधिः-प्रमाता, प्रमेयं प्रमाणं, प्रमितिरिति तत्त्वचतुष्टयं परपरिकल्पितमवस्त्वेव, विचारासहत्वात् , तुर
शृङ्गवत् । तत्र प्रमाता तावदात्मा, तस्य च प्रमाणग्राह्यत्वाभावादभावः । तथाहि न प्रत्यक्षेण तत्सिद्धिरिन्द्रियगोचरातिक्रान्तत्वात् । यत्तु अहङ्कारप्रत्ययेन तस्य मानसप्रत्यक्षत्वसाधनम् , तदप्यनैकान्तिकम् , तस्याहं गौरः, श्यामो वेत्यादौ शरीराश्रयतयाण्युपपत्तेः। किञ्च, यद्ययमहङ्कारप्रत्यय आत्मगोचरः स्यात् तदा न कादाचित्कः स्यात् आत्मनः सदा सन्निहितत्वात्, कादाचित्कं हि ज्ञानं,कादाचिककारणपूर्वकं दृष्टम् । यथा सौदामिनीज्ञानमिति । नाप्यनुमानेन, अव्यभिचारिलिङ्गाग्रहणात् । आगमानां च परस्परविरुद्धार्थवादिनां नास्त्येव प्रामाण्यम् । तथाहि एकेन कथमपि कश्चिदर्थो व्यवस्थापितः, अभियुक्ततरेणापरेण स एवान्यथा व्यवस्थाप्यते, स्वयमव्यवस्थितप्रामाण्यानां च तेषां कथमन्यव्यवस्थापने सामर्थ्यम्, इति नास्ति प्रमाता ।
प्रमेयं च वाह्योऽर्थः, स चानन्तरमेव बाह्यार्थप्रतिक्षेपक्षणे निर्लो१ अभिसंधिः-समाधानम् । २ 'वेत्यादि' इति ह. पुस्तके पाठः । ३ सौदामनी--विद्युत् ।