________________
श्लोक २५
अन्ययोगव्यवच्छेदिका तावपि स्वभावान्तराभ्याम् , तावपि स्वभावान्तराभ्यामिति । येनात्मना सामान्यस्याधिकरणं तेन सामान्यस्य विशेषस्य च । येन च विशेषस्याधिकरणं तेन विशेषस्य सामान्यस्य चेति सङ्करदोषः । येन स्वभावेन सामान्यं तेन विशेषः, येन विशेषस्तेन सामान्यमिति व्यतिकरः । ततश्च वस्तुनोऽसाधारणाकारेण निश्चेतुमशक्तेः संशयः। ततश्चाप्रतिपत्तिः । ततश्च प्रमाणविषयव्यवस्थाहानिरिति । एते च दोषाः स्याद्वादस्य जात्यन्तरत्वाद् निरवकाशा एव, अतः स्याद्वादमर्मवोदिभिरुद्धरणीयास्तत्तदुपपतिभिरिति । स्वतन्त्रतया निरपेक्षयोरेव सामान्य-विशेषयोविधि-प्रतिषेधरूपयोस्तेषामवकाशात् ।
अथवा विरोधब्दोऽत्रं दोषवाची, यथा विरुद्धमाचरतीति दुष्टमित्यर्थः । ततश्च विरोधेभ्यो विरोध-वैयधिकरण्यादिदोषेभ्यो भीता इति व्याख्येयम् । एवं च सामान्यशब्देन सर्वा अपि दोषव्यक्तयः संगृहीता भवन्ति । इति काव्यार्थः ॥ २४ ॥
अथानेकान्तवादस्य सर्वद्रव्यपयार्यव्यापित्वेऽपि मूलभेदापेक्षया चातुर्विध्याभिधानद्वारेण भगवतस्तत्त्वामृतरसास्वादसौहित्यमुपवर्णयन्नाहस्याद् नाशि नित्यं सदृशं विरूपं
वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्व
सुधोद्गतोद्गारपरम्रेयम् ।। २५ ॥ स्यादित्यव्ययमनेकान्तद्योतकमष्टास्वपि पदेषु योज्यम् , तदेव अधिकृतमेवैकं वस्तु, स्यात् कथञ्चिद नाशि-विनशनशीलम१ अथवेत्यादि श्लोकसमाप्तिपर्यन्तं क. पुस्तके नास्ति । २ 'सर्वपर्याय' इति क. ख. ह. पुस्तकेषु पाठः।