________________
१९७
. सावादनअरीसहिता
श्लोक २५. य एकान्त इतरधर्मनिषेधेन स्वाभिप्रेतधर्मव्यवस्थापननिश्चयस्तेन हता इव हताः, पतन्ति स्खलन्ति-पतिताश्च सन्तस्ते न्यायमार्गाक्रमणे ने समर्थाः, न्यायमार्गाध्वनीनानां च सर्वेषामप्याक्रमणीयतां यान्तीति भावः।
___ यद्वा पतन्तीति प्रमाणमार्गतः च्यवन्ते, लोकेहि सन्मार्गच्युतः पतित इति परिभाष्यते । अथवा यथा वज्रादिप्रहारेण हतः पतितो मूर्छामतुच्छामासाद्य विरुद्धवाझसरो भवति, एवं तेऽपि वादिनः स्वाभिमतैकान्तवादेन युक्तिसरणिमनुसरता वज्राशनिप्रायेण निहताः सन्तः, स्याद्वादिनां पुरतोऽकिश्चित्करा वाङ्मात्रमपि नोच्चारयितुमीशत इति । ___अत्र च विरोधस्योपलक्षणत्वात् वैयधिकरण्यम् , अनवस्था, संकरः, व्यतिकरः, संशयः अप्रतिपत्तिः, विषयव्यवस्थाहानिरित्येतेऽपि परोद्भाविता दोषा अभ्यूह्याः। तथाहि-सामान्य-विशेषात्मकं वस्तु इत्युपन्यस्ते परे उपालब्धारो भवन्ति, यथा सामान्य-विशेषयोविधिप्रतिषेधरूपयोर्विरुद्धधर्मयोरेकत्राभिन्ने वस्तुनि असंभवात् शीतोष्णवदिति विरोधः । न हि यदेव विधेरधिकरणं तदेव प्रतिषेधस्याधिकरणं भवितुमर्हति, एकरूपतापत्तेः, ततो वैयधिकरण्यमापि भवति । अपरं च येनात्मना सामान्यस्याधिकरणं येन च विशेषस्य तावप्यात्मानौ एकेनैव स्वभावेनाधिकरोति, द्वाभ्यां वा स्वभावाभ्याम् एकेनैव चेत् । तत्र पूर्ववद् विरोधः, द्वाभ्यां वा स्वभावाभ्यां सामान्य-विशेषाख्यं स्वभावद्वयमधिकरोति, तदानवस्था । १ 'क्रमणेनासमर्थाः' इति क. ख. घ. रा. पुस्तकेषु पाठः । २ अतुच्छा-न स्वल्पा । महतीत्यर्थः । ३ मूक इत्यर्थः । ४ 'परोद्भावनीयाः' इति घ. पुस्तके पाठः । ५ उपालब्धारः-निन्दका उपलम्मवादिनः ।