SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्लोक २४ अन्ययोगव्यवच्छेदिका तात्र सर्व शून्यतेति । तदा हि विरोधः स्याद् , यद्येकोपाधिकं सत्त्वमसत्त्वं च स्यात् । न चैवम् । यतो न हि येनैवांशेन सत्त्वं तेनैवासत्त्वमपि । किं त्वन्योपाधिकं सत्त्वम् , अन्योपाधिकं पुनरसत्त्वम् स्वरूपेण हि सत्त्वं पररूपेण चासत्त्वम् ।। दृष्टं ह्येकास्मन्नेव चित्रपटावयविनि अन्योपाधिकं तु नीलत्वम् , अन्योपाधिकाश्थेतरे वर्णाः-नीलत्वं हि नीलीरागाद्युपाधिकम् , वर्णान्तगाणि च तत्तद्रञ्जनद्रव्योपाधिकानि । एवं मेचकरनेऽपि तत्तद्वर्णपुद्गलोपाधिकं वैचित्र्यमवसेयम् । न चैभिदृष्टान्तैः सत्त्वासत्त्वयोभिन्नदेशत्वप्राप्तिः चित्रपटाद्यवयविन एकत्वात् , तत्रापि भिन्नदेशत्वासिद्धेः । कथंचित्पक्षस्तु दृष्टान्ते दार्शन्तिके च स्यावादिनां न दुर्लभः। ___ एवमप्यपरितोपश्चेद् आयुष्मतः, तकस्यैव पुंसस्तत्तदुपाधिभेटान पितृत्व-पुत्रत्व-मातुलत्व-भागिनेयत्व-पितृव्यत्व-भ्रातृव्यत्वादिधर्माणां परस्परविरुद्धानामपि प्रसिद्धिदर्शनात् किं वाच्यम् । एवमवक्तव्यत्वादयोऽपि वाच्या इति । उक्तप्रकारेण उपाधिभेदेन वास्तवं विरोधाभावमप्रबुध्यैवाज्ञात्वैव । एवकारोऽवधारणे । स च तेषां सम्यग्ज्ञानस्याभाव एव, न पुनर्लेशतोऽपि भाव इति व्यनक्ति । ततस्ते विरोधभीताः-सत्त्वासत्त्वादिधर्माणां बहिर्मुखशेमुख्या संभावितो वा विरोधः सहानवस्थानादिः, तस्माद् भीतास्त्रस्तमानसाः अत एव जडाः । तात्त्विकभयहेतोरभावेऽपि तथाविधपशुवद् भीरुत्वान्मूखाः परवादिनः, तदेकान्तहताः-तेषां सत्त्वादिधर्माणां १ मेचकरत्नं रत्नजातिविशेषः अत्र विचित्रवर्णाः स्युः । ' मेचकरक्ते ' इति रा. ख. पुस्तकयोः पाठः । मेचकपदेन मयूरपिच्छगतनानावर्णविशिष्टवर्तुलाकृतिविशेषो बोध्यः। २ 'एकस्येव' इति क. ह. पुस्तकयोः पाठः । ३ 'अपि' इति क. पुस्तके नास्ति । ४ शेमुषी-बुद्धिः । . ... . . . ... . .. .. .
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy