________________
सह विरोधं ना
न विरुद्धम्
सदवा
स्याद्वादमञ्जरीसहिता
श्लोक २४ अर्थेषु पदार्थेषु चेतनाचेतनेषु, असत्त्वं नास्तित्वं न विरुद्धं न विरोधावरुद्धम्--अस्तित्वेन सह विरोधं नानुभवतीत्यर्थः । न केवलमसत्त्वं न विरुद्धम् किं तु सदवाच्यते च-सच्चावाच्ये च सदवाच्ये, तयोर्भावौ सदवाच्यते--अस्तित्वावक्तव्यत्वे इत्यर्थः । ते अपि न विरुद्ध ।
__ तथाहि-अस्तित्वं नास्तित्वेन सह न विरुध्यते, अवक्तव्यत्वमाप विधि-निषेधात्मकमन्योन्यं न विरुध्यते । अथवा अवक्तव्यत्वं वक्तव्यत्वेन साकं न विरोधमुदहति । अनेन च नास्तित्वास्तित्वावक्तव्यत्वलक्षणभङ्गत्रयेण सकलसप्तभङ्गन्या निर्विरोधता उपलक्षिता। अमीषामेव त्रयाणां मुख्यत्वाच्छेषभङ्गानां च संयोगजत्वेनामीष्वेवान्तर्भावादिति।
नन्वेते धर्माः परस्परं विरुद्धाः, तत्कथमेकत्र वस्तुन्येषां समावेशः संभवति, इति. विशेषणद्वारेण हेतुमाह-उपाधिभेदोपहितम् इति-उपाययोऽवच्छेदका अंशप्रकाराः, लेषां भेदो नानात्वम् , तेनोपहितमर्पितम्-असत्त्वस्य विशेषणमेतत् उपाधिभेदोपहितं सदर्थेष्वसत्त्वं न विरुद्धम् , सदवाच्यतयोश्च वचनभेदं कृत्वा योजनीयम्उपाधिभेदोपहिते सती सदवाच्यते अपि न विरुद्धे । .
अयमभिप्रायः-परस्परपरिहारेण ये वर्तेते तयोः शीतोष्णवत् सहानवस्थानलक्षणो विरोधः । न चात्रैवम् । सत्त्वासत्त्वयोरितरेतरमविष्वग्भावेन वर्तनात् । न हि घटादौ सत्त्वमसत्त्वं परिहत्य वर्तते, पररूपेणापि सत्त्वप्रसङ्गात् । तथा च तद्व्यतिरिक्तार्थान्तराणां नैरर्थक्यम् , तेनैव त्रिभुवनार्थसाध्यार्थक्रियाणां सिद्धेः। न चासत्त्वं सत्त्वं परिहत्य वर्तते, स्वरूपेणाप्यसत्वप्राप्तः, तथा च निरुपाख्य१ 'विरुध्येते' इति क. पुस्तके पाठः । २ तथापि' इति क. पुस्तके पाठः।