________________
स्याद्वादमञ्जरीसहिता
श्लोक २५ नित्यमित्यर्थः, स्यान्नित्यम्-अविनाशिधर्मीत्यर्थः, एतावता नित्यानित्यलक्षणमेकं विधानम् । तथा स्यात् सदृशमनुवृत्तिहेतुसामान्यरूपम् , स्याद् विरूपं विविधरूपम्-विसदृशपरिणामात्मकं व्यावृत्तिहेतुविशेषरूपमित्यर्थः । अनेन सामान्यविशेषरूपो द्वितीयः प्रकारः।
तथा स्याद् वाच्यं वक्तव्यम् , स्याद् न वाच्यमवक्तव्यमित्यर्थः । अत्र च समासेऽवाच्यमिति युक्तम् , तथाप्यवाच्यपदं योन्यादौ रूढमित्यसभ्यतापरिहारार्थं न वाच्यमित्यसमस्तं चकार स्तुतिकारः, एतेनाभिलाप्यानभिलाप्यस्वरूपस्तृतीयो भेदः। तथा स्यात्सद् विद्यमानमस्तिरूपमित्यर्थः, स्याद् असत् तद्विलक्षणमिति, अनेन सदसदाख्या चतुर्थी विधा ।
हे विपश्चितां नाथ ! संख्यावतां मुख्य ! इयमनन्तरोक्ता निपीततत्त्वसुधोद्गतोद्गारपरम्परा तवेति प्रकरणात् सामर्थ्याद्वा गम्यते-तत्त्वं यथावस्थितवस्तुस्वरूपपरिच्छेदः, तदेव जरामरणापहारित्वाद् , विबुधोपभोग्यत्वाद् , मिथ्यात्वविषोमिनिराकरिष्णुत्वाद्, आन्तराहादकांरित्वाच्च पीयूषं तत्त्वसुधा, नितरामनन्यसामान्यतया पीता आस्वादिता या तत्त्वसुधा तस्या उद्गता प्रादुर्भूता तत्कारणिका उद्गारपरम्परा उद्गारश्रेणिरिवेत्यर्थः। यथा हि कश्चिदाकण्ठं पीयूषरसमापीय तदनुविधायिनीमुद्गारपरम्परां मुञ्चति, तथा भगवानपि जरामरणापहारि तत्त्वामृतं स्वैरमास्वाद्य तद्रसानुविधायिनी प्रस्तुतानेकान्तवादभेदचतुष्टयीलक्षणामुद्गारपरम्परां देशनामुखेनोद्गीर्णवानित्याशयः। ___अथ वा यैरेकान्तवादिभिर्मिथ्यात्वगरलभोजनमातृप्ति भक्षितं तेषां तत्तद्वचनरूपा उद्गारप्रकाराः पारदर्शिताः। यैस्तु पंचेलिम१ अत्रेत्यारभ्य स्तुतिकार इत्यन्तं क. पुस्तके नास्ति । २ 'भेद ' इति ख. पुस्तके नास्ति । ३ पचेलिम-फलावस्थाप्राप्तम् ।