________________
श्लोक २६ अन्ययोगव्यवच्छेदिका
२०० प्राचीनपुण्यप्राग्भारानुगृहीतैर्जगद्गुरुवदनेन्दुनिःस्यन्दि तत्त्वामृतं मनोहत्य पीतम्, तेषां विपश्चितां यथार्थवादविदुषां हे नाथ ! इयं पूर्वदलदर्शितोल्लेखशेखरा उद्गारपरम्परेति व्याख्येयम् । ___एते च चत्वारोऽपि वादास्तेषु तेषु स्थानेषु प्रागेव चर्चिताः। तथाहि 'आदीपमाव्योम समस्वभावम्' इति वृत्ते नित्यानित्यवादः प्रदार्शतः । 'अनेकमेकात्मकमेव वाच्यम्' इति काव्ये सामान्यविशेषवादः संसूचितः' सप्तभङ्गयामभिलाप्यानभिलाप्यवादः, सदसद्वादश्च चर्चितः। इति न भूयः प्रयासः। इति काव्यार्थः ॥२५॥
इदानीं नित्यानित्यप्रक्षयोः परस्परदूषणप्रकाशनबद्धलक्षतया वैरायमाणयोरितरेतरोदीरितविविधहेतुहेतिसंनिपातसंजातविनिपात-- योरयत्नसिद्धपतिपक्षप्रतिक्षेपस्य भगवच्छासनसाम्राज्यस्य सर्वोत्कर्षमाह
य एव दोषाः किल नित्यवादे
विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु
जयत्यधृष्यं जिनशासनं ते ॥२६॥ किलेति निश्चये य एव नित्यवादे नित्यैकान्तवादे, दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रम-योगपद्याभ्यामर्थक्रिया पपत्यादयः, त एव विनाशवादेऽपि क्षणिकैकान्तवादेऽपि, समास्तुल्याः, १ मनोहत्य-श्रद्धाप्रतिघातेन । रुच्यपेक्षयाप्यधिकम् । २ पंचमश्लोकः। ३ चतुर्दशश्लोकः । ४ संसूचित इत्यारभ्य चर्चित इत्यन्तं क. पुस्तके नास्ति । ५ हेतिः-शस्त्रम् । ६ अष्टादशे श्लोके ।