________________
श्लोक १६
अन्ययोगव्यवच्छेदिका
न तुल्यकालः फलहेतुभावः इति । न च द्वितीयः, तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तरक्षणजनने कुतः संभावनापि । न चानुपादानस्योत्पत्तिर्दृष्टा, अतिप्रसङ्गात् । इति सुष्ठु व्याहृतं - हेतौ विलीने न फलस्य भावः इति । पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः । केवलमत्र फलमुपादेयं हेतुरुपादानं तद्भाव उपादानोपादेयभाव इत्यर्थः।
१३४
यच्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनानन्तरमेव मलपितं तत् स्याद्वादवादे निरवकाशमेव, निरन्वयनाशवर्ज कथंचित्सिद्धसाधनात्, प्रतिक्षणं पर्यायनाशस्यानेकान्तवादिभिरभ्युपगमात् । यदप्यभिहितम् - न ह्येतत् संभवति — जीवति च देवदत्तो, मरणं चास्य भवतीति । तदपि संभवादेव न स्याद्वादिनां क्षतिमावहति । यतो जीवनं प्राणधारणं, मरणं चायुर्दलिकक्षयः । ततो जीवतोऽपि देवदत्तस्य प्रतिसमयमायुर्दलिकानामुदीर्णानां क्षयादुपपन्नमेव मरणम् । न च वाच्यमन्त्यावस्थायामेव कृत्स्नायुर्दलिकक्षयात् तत्रैव मरणव्यपदेशो युक्त इति । तस्यामप्यवस्थायां न्यक्षेणे तत्क्षयाभावात् । तत्रापि ह्यावशिष्टानामेव तेषां क्षयो न पुनस्तत्क्षण एव युगपत्सर्वेषाम् । इति सिद्धं गर्भादारभ्य प्रतिक्षणं मरणम् । इत्यलं प्रसङ्गेन ।
अथवापरथा व्याख्या -सौगतानां किलार्थेन ज्ञानं जन्यते । तच्च ज्ञानं तमेव स्वोत्पादकमर्थं गृह्णातीति, “ नाकारणं विषयः” इति वचनात् । ततश्चार्थः कारणं ज्ञानं च कार्यमिति । एतच्च न चारु, यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि ज्ञानं नोत्पद्यते, तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात् । यत्र च क्षणे ज्ञानं
१ यां प्रकृतिं बध्नाति जीवस्तदनुभावेन प्रकृत्यन्तरस्थं दलिकं परमाण्वात्मकम् । आयुःपरमाणुक्षय इत्यर्थः ।
२ न्यक्षेण- पूर्णतया ।
३ 'ज्ञानकारणं विषयः' इति कचित्पाठः |