________________
१३५
स्याद्वादमञ्जरीसहिता
श्लोक १६
समुत्पन्नं तत्रार्थोऽतीतः । पूर्वापरकालभावनियतश्च कार्यकारणभावः । क्षणातिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः, कारणस्य विलीनत्वात् । तद्विलये च ज्ञानस्य निर्विषयतानुषज्यते, कारणस्यैव युष्मन्मते तद्विषयत्वात् । निर्विषयं च ज्ञानमप्रमाणमेवाकाशकेशज्ञानवत् । ज्ञानसहभाविनश्चार्थक्षणस्य न ग्राह्यत्वम् तस्याकारणत्वात् । अत आह—न तुल्यकालः इत्यादि । ज्ञानार्थयोः फलहेतुभावः कार्यकारणभावस्तुल्यकालो न घटते । ज्ञानसहभाविनोऽर्थक्षणस्य ज्ञानानुत्पादकत्वात् । युगपद्भाविनोः कार्यकारणभावायोगात् । अथ प्राचोऽर्थक्षणस्य ज्ञानोत्पादकत्वं भविष्यति । तन्न, यत आह- हेतौ इत्यादि । तावर्थरूपे ज्ञानकारणे विलीने क्षणिकत्वान्निरन्वयं विनष्टे न फलस्य ज्ञानलक्षणकार्यस्य भाव आत्मलाभः स्यात् । जनकस्यार्थ - क्षणस्यातीतत्वाद् निर्मूलमेव ज्ञानोत्थानं न स्यात् । जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि ग्राह्यत्वापत्तिः, तेषामपि ज्ञानजनकत्वात् । न चान्वयव्यतिरेकाभ्यामर्थस्य ज्ञानहेतुत्वं दृष्टं, मृगतृष्णादौ जलाभावेऽपि जलज्ञानोत्पादात्, अन्यथा तमवृत्तेरसंभवात् । भ्रान्तं तज्ज्ञानमिति चेत । ननु भ्रान्ताभ्रान्ताविचारः स्थिरीभूय क्रियतां त्वया, सांप्रतं प्रतिपद्यस्व तावदनर्थजमपि ज्ञानम् । अन्वयेनार्थस्य ज्ञानहेतुत्वं दृष्टमेवेति चेत् । न । न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम् अपि तु तद्भावेऽभावलक्षणो व्यतिरेकोsपि । स चोक्तयुक्तया नास्त्येव । योगिनां चातीतानागतार्थग्रहणे किमर्थस्य निमित्तत्वम्, तयोरसत्त्वात् ।
" णिहाणगया भग्गा पुंजो णत्थि अणागए । णिव्वुया णेव चिठ्ठेति आरग्गे सरिसवोवमा " ॥ इति वचनात् ।
१ अतः परं ' एवमन्यतरेष्वप्यर्थेषु भावनीयम् ' इत्यधिकं के. पुस्तके | २ न निधानगता भग्नाः पुंजो नास्त्यनागते । निर्वृत्ता नैव तिष्ठन्ति आरा सर्प
पोपमाः ॥ १ ॥ इति छाया ।