________________
लोक १६ अन्ययोगव्यवच्छेदिका
१३६ निमित्तत्त्वे चार्थक्रियाकारित्वेन सत्त्वादतीनागतत्वक्षतिः । न च प्राकाश्यादात्मलाभ एव प्रकाशकस्य प्रकाशकत्वं प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्यापि तत्प्रकाशकत्वात् । जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणस्याप्रामाण्यप्रसङ्गः, तस्यार्थाजन्यत्वात् । न च स्मृतिर्न प्रमाणम्, अनुमानप्रमाणप्राणभूतत्वात् । साध्यसाधनसम्बन्धस्मरणपूर्वकत्वात् तस्य ।
जनकमेव च चेद् ग्राह्यम्, तदा स्वसंवेदनस्य कथं ग्राहकत्वम् । तस्य हि ग्राह्यं स्वरूपमेव । न च तेन तज्जन्यते, स्वात्मनि क्रियाविरोधात् । ____ तस्मात् स्वसामग्रीप्रभवोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यपकाशकभावसंभवाद् न ज्ञानानिमित्तत्वमर्थस्य। नन्वर्थाजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था । तदुत्पत्तितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्यातदाकारस्य च ज्ञानस्य सर्वार्थान् प्रत्यविशेषात् सर्वग्रहणं प्रसज्येत। नैवम् । तदुत्पत्तिमन्तरेणाप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियतार्थप्रकाशकत्वोपपत्तेः । तदुत्पत्तावपि च योग्यतावश्यमेष्टव्या । अन्यथाशेषार्थसान्निध्ये तत्तदर्थासांनिध्येऽपि कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति कौतस्कुतोऽयं विभागः।
तदाकारता त्वाकारसंक्रान्त्या तावदनुपपन्ना, अर्थस्य निराकाराकारत्वप्रसङ्गात् ज्ञानस्य साकारत्वप्रसङ्गाच्च । अर्थेन च मूर्तेनामूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् । इत्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया। ततः" अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् ।
तस्मात् प्रमेयाधिगतेःप्रमाणं मेयरूपता"॥१॥ इति यत्किञ्चिदेतत् ।
१ कुतः कुत आगतः कौतस्कुतः । २ 'जडत्वप्रसंगाद्वा' इति क. पुस्तके पाठः ।