________________
स्याद्वादमञ्जरीसहिता
श्लोक १६
I
स्वहेतोर्जातमिति ? न हि म्रियते च, अमरणधर्मा चेति युज्यते वक्तुम् । तस्मादविनश्वरत्वे कदाचिदपि नाशायोगात् दृष्टत्वाच्च नाशस्य, नैश्वरमेव तद्वस्तु स्वहेतोरुपजातमङ्गीकर्तव्यम् । तस्मादुत्पमात्रमेव तद्विनश्यति । तथा च क्षणक्षयित्वं सिद्धं भवति । प्रयोगस्त्वेवम्-यद्विनश्वरस्वरूपं तदुत्पत्तेरनन्तरानवस्थायि, यथान्त्यक्षणवर्ति घटस्य स्वरूपम्, विनश्वरस्वरूपं च रूपादिकमुदयकाले, इति स्वभावहेतुः । यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् ? उच्यते-निरन्तरसदृशापरापरोत्पादात्, अविद्यानुबन्धाच्च पूर्वक्षणविनाशकाल एव तत्सदृशं क्षणान्तरमुदयते । तेनाकारविलक्षणत्वाभावादव्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाध्यवसायी प्रत्ययः प्रसूयते । अत्यन्तभिन्नेष्वपि लूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवायं स एवायम्' इति प्रत्ययः, तथेहापि किं न संभाव्यते ? तस्मात् सर्वे सत् क्षणिकमिति सिद्धम् । अत्र च पूर्वक्षण उपादानकारणम्, उत्तरक्षणं उपादेयम्, इति पराभिप्रायमङ्गीकृत्याह — न तुल्यकालः इत्यादि । ते विशँकलितमुक्तावलीकल्पा निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणात् जनयन्तः किं स्वोत्पत्तिकाले एव जनयन्ति, उत क्षणान्तरे । न तावदाद्यः, समकालभाविनोर्युबतिकुचयोरिवोपादानोपादेयभावाभावात् । अतः साधूक्तम्
१३३
१ 'विनश्वरम्' इति क . पुस्तके पाठः ।
२ न्यायबिन्दौ - (पृ. ६५ ७३ ) तथा स्वभावहेतोः प्रयोगः - यत्सत्तत्सर्वमनित्यं यथा घटादिरिति । शुद्धस्य स्वभावहेतोः प्रयोगः । यदुत्पत्तिमत्तदनित्यमिति । स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । यत्कृतकं तदनित्यमित्युपाधिभेदेन । असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्त्वं कृतकत्वं वा । असंश्च शब्द उत्पत्तिमान् कृतको बेति स्वभावहेतोः प्रयोगः ।
३ पूर्व लूनाश्छिन्नाः कुशादयः पुनरुत्पद्यन्ते ।
४ सूत्रविगलितमौक्तिकमालासदृशाः ।