________________
श्लोक १६ अन्ययोगव्यवच्छेदिक
१३२ भेदोऽपि निराकर्तव्यः, तस्यैकप्रमातृतादात्म्येन प्रमाणात् कथश्चिदभेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः। यः प्रमिमीते स एवोपादत्ते, परित्यज्यति, उपेक्षते चेति सर्वव्यवहारिभिरस्खलितमनुभवात् । इतरथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्यत इत्यलम् । ... अथवा पूर्वार्धमिदमन्यथा व्याख्येयम् । सौगताः किलेत्थं प्रमाणयन्ति सर्व सत् क्षणिकम् । यतः सर्व तावद् घटादिकं वस्तु मुद्रादिसंनिधौ नाशं गच्छद् दृश्यते। तत्र येन स्वरूपेणान्त्यावस्थायां घटादिकं विनश्यति तच्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादानन्तरमेव तेन विनष्टव्यम् , इति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य हेतुतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्रादिसंनिधानेऽपि स एष एव तस्य स्वभावः इति पुनरप्येतेन तावन्तमेव कालं स्थातव्यम् । इति नैव विनश्येदिति। सोऽयं "अदित्सोर्वणिजः प्रतिदिनं पत्रलिग्विनश्वस्तनदिनभणनन्यायः" । तस्मात् क्षणद्वयस्थायित्वेनाप्युत्पत्तौ प्रथमक्षणवद् द्वितीयेऽपि क्षणे क्षणद्वयस्थायित्वात् पुनरपरक्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभावत्वाद् नैव विनश्येदिति ।
स्यादेतत् , स्थावरमेव तत् स्वहेतोर्जातम् , परं बलेन विरोधकेन मुद्गरादिना विनाश्यत इति । तदसत् । कथं पुनरेतद् घटिप्यते न च तद् विनश्यति स्थावरत्वात् , विनाशश्च तस्य विरोधिना बलेन क्रियते-इति । न ह्येतत्सम्भवति-जीवति च देवदत्तो, मरणं चास्य भवतीति । अथ विनश्यति, तर्हि कथमविनश्वरं तद् वस्तु १ 'स्वहेतुतः' इति ह. पुस्तके पाठः ।
२ कश्चिद् वणिक् द्रव्यमदित्सुः पत्रद्वारा प्रत्यहमुत्तमय श्वस्तवधनं दास्य इति बोधयति तद्वत् ।