________________
स्याद्वादमञ्जरीसहिता
श्लोक १६
नीलसंवेदनरूपम् " इत्यादि । तदप्यसारम् । एकस्य निरंशस्य
ज्ञानक्षणस्य
व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयायोगात्,
१३१
व्यवस्थाप्यव्यवस्थापकभावस्यापि च संबन्धत्वेन द्विष्टत्वादेकस्मिन्नसंभवात ।
।
किञ्च, अर्थसारूप्यमर्थाकारता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा । निश्चयरूपं चेत्, तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चेत्, स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । अपि च, केयमर्थाकारता । किमर्थग्रहणपरिणामः, । आहोस्विदर्थाकारधारित्वम् ? नाद्यः सिद्धसाधनात् । द्वितीयस्तु ज्ञाप्रमेयाकारानुकरणाज्जडत्वोपपत्त्यादिदोषाघातः । तन्न प्रमाणादेकान्तेन फलस्याभेदः साधीयान् । सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिध्यति अतिप्रसङ्गात् ।
नस्य
ननु प्रमाणस्यासारूप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्यापि प्रमाणफलव्यवस्थेति चेत् । नैवम्, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्यानुपपत्तेः । कथं च प्रमाणस्य फलस्य चाप्रमाणाफलव्यावृत्त्याः प्रमाणफलव्यवस्थावत् प्रमाणान्तरफलान्तरव्यावृत्त्याप्यप्रमाणत्वस्याफलत्वस्य च व्यवस्था न स्यात्, विजातीयादिव सजातीयादपि व्यावृत्तत्वाद् वस्तुनः । तस्मात् प्रमाणात् फलं कथञ्चिद्भिन्नमेवैष्टव्यं साध्यसाधनभावेन प्रतीयमानत्वात् । ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्येते, यथा कुठारच्छिदिक्रिये इति । एवं यौगाभिप्रेतः प्रमाणात् फलस्यैकान्त
१ 'अतिप्रसक्तेः' इति क पुस्तके पाठः ।
"