________________
१३०
श्लोक १६
अन्ययोगव्यवच्छेदिका न्याह-हेतौ विलीने न फलस्य भावः इति हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता, निर्मूलत्वात् । विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते । नान्यथा, अतिप्रसङ्गात् ।
किञ्च, हेतुफलभावः सम्बधः, स च द्विष्ठ एव स्यात् । न चानयोः क्षणक्षयैकदीक्षितो भवान् सम्बन्धं क्षमते । ततः कथम 'अयं हेतुरिदं फलम्' इति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याग्रहणे तदसंभवात् ।
"द्विष्ठसंबन्धसंवित्तिनैकरूपप्रवेदनात् । . द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम्" ॥१॥ इति वचनात् ।
यदपि धर्मोत्तरेण –" अर्थसारूप्यमस्य प्रमाणम् । तंदशादर्थप्रतीतिसिद्धेः" इति न्यायबिन्दुसूत्रं विवृण्वता भणितम् “ नीलनिर्भासं हि विज्ञानं, यतस्तस्माद् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते। न चात्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः। येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किश्चिद्रूपं प्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च
१ म्यायबिन्दौ प्रथमपरिच्छेदे सूत्रम् १९ पृ. २५।२६ । २ न्यायबिन्दुप्रथमपरिच्छेदे सूत्रम् २० । ३ न्यायबिन्दुप्रथमपरिच्छेदे २० सूत्रे स्वोपशटीकायाम् ।