________________
१२९
.
स्याद्वादमञ्जरीसहिता
श्लोक १६ __ . न तुल्यकालः फलहेतुभावो
हेतौ विलीने न फलस्य भावः। . न संविदद्वैतपथेऽर्थसंविद्
विलूनशीष सुगतेन्द्रजालम् ॥ १६ ॥ बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाभिन्नं मन्यन्ते । तथाच तत्सिद्धान्तः-"उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्"। उभयत्रेति प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षानुमानलक्षणं फलं, कार्यम् । कुतः ? अधिगमरूपत्वादिति परिच्छेदरूपत्वात् । तथाहि-परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदाहतेऽन्यद् ज्ञानफलम् अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । एतच्च न समीचीनम् । यतो यद्यस्मादेकान्तेनाभिन्नं, तत्तेन सहैवोत्पद्यते । यथा घटेन घटत्वम् । तैश्च प्रमाणफलयोः कार्यकारणभावोऽभ्युपगम्यते---प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताभेदे न घटते । नहि युगपदुत्पद्यमानयोस्तयोः सव्येतरगोविषाणयोरिव कार्यकारणभावो युक्तः, नियतप्राकालभावित्वात् - कारणस्य । नियतोत्तरकालभावित्वात् कार्यस्य । एतदेवाह-न तुल्यकालः फलहेतुभावः इति । फलं कार्य, हेतुः कारणम् , तयोर्भावः स्वरूपम् , कार्यकारणभावः स तुल्यकालः समानकालो न युज्यत इत्यर्थः ।
अथ क्षणान्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्याश१ धर्मकीर्तिप्रणीतन्याबिन्दौ पृ. २५ परि. १ सू. १८ इत्यत्रैतदर्थकं शब्दासम् । तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।
२ वामदक्षिणगोशृङ्गयोः।