________________
श्लोक १५
अन्ययोगव्यवच्छेदिका सर्गः । पशुमृगपक्षिसरीसृपस्थावरभेदात् पञ्चविधस्तैर्यग्योनः । ब्राह्मणत्वाद्यवान्तरभेदाविवक्षया चैकविधो मानुषः । इति चतुर्दशधा भूतंसर्गः । बाधिर्यकुण्ठतान्धत्वजडताजिघ्रतामूकताकोण्यपङ्गत्वक्लैब्योदावर्तमत्ततारूपैकादशेन्द्रियवधतुष्टिनवकविपर्ययसिध्यष्टकविपर्ययलक्षणसप्तदशबुद्धिवधभेदादष्टाविंशतिविधा शक्तिः। प्रकृत्युपादानकालभोगाख्या अम्भःसलिलौघदृष्टयपरपर्यायवाच्याश्चतस्र आध्यात्मिक्यः, शब्दादिविषयोपरतयश्चार्जनरक्षणक्षयभोगहिंसांदोषदर्शनहेतुजन्मानः पञ्च बाह्यास्तुष्टयः । ताश्च पारसुपारपारापारानुत्तमाम्भउत्तमाम्भःशब्दव्यपदेश्याः । इति नवधा तुष्टिः । त्रयो दुःखविधाता इति मुख्यास्तिस्रः सिद्धयः प्रमोदमुदितमोदमानाख्याः । तथाध्ययनं शब्द ऊहः सुहृत्प्राप्तिर्दानमिति दुःखविघातोपायतया गौण्यः पञ्च तारसुतारतारताररम्यकसदामुदिताख्याः । इत्येवमष्टेधा सिद्धिः । धृतिश्रद्धासुखविविदिषाविज्ञप्तिभेदात् पञ्च कर्मयोनयः । इत्यादीनां संवरप्रतिसंवरादीनां च तत्त्वकौमुदीगौडपादभाष्यादिपसिद्धानां विरुद्धत्वमुद्भावनीयम् ॥ इति काव्यार्थः ॥ १५ ॥
इदानीं ये प्रमाणादेकान्तेनाभिन्न प्रमाणफलमाहुः, ये च बाह्यार्थप्रतिक्षेपेण ज्ञानाद्वैतमेवास्तीति ब्रुवते तन्मतस्य विचार्यमाणत्वे विशरारुतामाह
१ सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ५३ । २ सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४९।५०५१ । ३ 'संचारप्रतिसंचारादीनाम्' इति क. पुस्तके पाठः । ४ विशरारुता-विनश्यमानता । . ५ 'आहुः' इति क. ख. रा. पुस्तकेषु पाठः ।