________________
१२७ - स्याद्वादमञ्जरीसहिता
श्लोक १५ बन्धसिद्धौ च सिद्धस्तस्यैव. निर्वाधः संसारः । बन्धमोक्षयोश्चैकाधिकरणत्वाद् य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मोक्षः, आबालगोपालं तथैव प्रतीतेः।
प्रकृतिपुरुषविवेकदर्शनात् प्रवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणावस्थानं मोक्ष इति चेत् । न, प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात् । अथ पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः तस्यां जातायां निवर्तते, कृतकार्यत्वात् ।
" रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथात्मानं प्रकाश्य विनिवर्तते प्रकृतिः॥१॥ ___इति वचनादिति चेत् । नैवम् , तस्या अचेतनाया विमृश्यकारित्वाभावात् । यथेयं कृतेऽपि शब्दाद्युपलम्भे पुनस्तदर्थ प्रवर्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थ प्रवर्तिष्यते । प्रवृत्तिलक्षणस्य स्वभावस्यानपेतत्वात् । नर्तकीदृष्टान्तस्तु स्वेष्टविघातकारी, यथा हि नर्वकी नृत्यं पारिषदेभ्यो दयित्वा निवृत्तापि पुनस्तत्कुतूहलात् प्रवर्तते, तथा प्रकृतिरपि पुरुषायात्मानं दर्शयित्वा निवृत्तापि पुनः कथं न प्रवर्ततामिति ? तस्मात् कृत्स्नकर्मक्षये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम् ।
एवंमन्यासामपि तत्कल्पनानां तमोमोहमहामोहतामिस्रान्धतामिस्रभेदात् पञ्चधाऽविद्यास्मितारागद्वेषाभिनिवेशरूपो विपर्ययः । ब्राह्मप्राजापत्यसौम्येन्द्रगान्धर्वयाक्षराक्षसपैशाचभेदादष्टविधो दैवः १ 'निर्बाधोऽयम्' इति क. पुस्तके पाठः । २ सांख्यकारिका ५९।। ३ विमृश्यकारित्वं-विचारपूर्वककार्यकारित्वम् । ४ पारिषदाः- परिषद्भवाः सभ्याः । ५ सांख्यतत्त्वकौमुदी कारिका ४७ । ६ सांख्यकारिकागौडपादभाष्ये सांख्यतत्त्वकौमुद्यां च कारिका ४७ ।