________________
श्लोक १५
अन्ययोगव्यवच्छेदिका ___यच्चोक्तं “नानाश्रयायाः प्रकृतेरेव बन्धमोक्षौ संसारश्च । न पुरुषस्य" इति । तदप्यसारम् । अनादिभवपरम्परानुबद्धया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहणलक्षणोऽविष्वग्भावः स एव चेन्न बन्धः, तदा को नामान्यो बन्धः स्यात् ? प्रकृतिः सर्वोत्पत्तिमतां निमित्तम् इति च प्रतिपद्यमानेनायुष्मता संज्ञान्तरेण कमैव प्रतिपन्नं तस्यैवस्वरूपत्वात् , अचेतनत्वाच्च ।
___ यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धः। तद्यथाप्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धीः पुरुषबुद्ध्योपासते तेषां वैकारिकः। इष्टापूर्ते दाक्षिणः । पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति ।
" इष्टापूर्त मन्यमाना वरिष्ठं । नान्यच्छ्रेयो येभिनन्दन्ति मूढाः। नाकस्य पृष्ठे ते सुकृतेन भूत्वा । इमं लोकं हीनतरं वा विशन्ति" ॥ १ ॥ इति वचनात् ।
स त्रिविधोऽपि कल्पनामात्रं कथञ्चिद् मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नस्वरूपत्वेन कर्मबन्धहेतुष्वेवान्तर्भावात् ।
१ तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ६२ ॥ इति सांख्यकारिकायाम् । . २ मुं. १।२।१०। ।
३ मिथ्या विपरीतं दर्शनं-मिथ्यादर्शनम् । अविरतिः--सावद्ययोगेभ्यो निवृत्त्यभावः सा च द्वादशप्रकारा । मनः स्वान्तं करणानि इन्द्रियाणि पञ्च तेषां स्वस्वविषये प्रवर्तमानानामनियमोऽनियन्त्रणम् । तथा षण्णां पृथिव्यतेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः । प्रमादः-प्रकर्षेण माद्यन्त्यनेनेति प्रमादः । विषयक्रीडाभिष्वङ्गः । कषायःकष्यन्ते बध्यन्ते प्राणिनोऽनेनेति कषं कर्मभवो वा । तद् आयो लाभो येषां यतस्ततः कषायाः । यदि वा कलुषयन्ति शुद्धस्वभावं सन्तं कर्ममलिनं कुर्वन्ति जीवमिति कषायाः। ते चत्वारः क्रोधमानमायालोभाख्याः ।