________________
१४३
स्याद्वादमञ्जरीसहिता . श्लोक १६ कार्यविशेषो.घटते । बाह्यश्चार्थो नास्ति । तेन वासनानामेव वैचित्र्यं तत्र हेतुरित चेत् तद्वासनावैचित्र्यं बोधाकारादन्यत् , अनन्यद्वा । अनन्यच्चेत् । बोधाकारस्यैकत्वात्कस्तासां परस्परतो विशेषः ।
अन्यच्चेत् । अर्थे कः प्रद्वेषः, येन सर्वलोकप्रतीतिरपह्लयते । तदेवं सिद्धो ज्ञानार्थयोर्भेदः । तथा च प्रयोगः-विवादाध्यासितं नीलादि ज्ञानाव्यतिरिक्तं, विरुद्धधर्माध्यस्तत्वात् । विरुद्धधर्माध्यासश्च ज्ञानस्य शरीरान्तः, अर्थस्य च बहिः। ज्ञानस्यापरकाले, अर्थस्य च पूर्वकाले वृत्तिमत्त्वात् । ज्ञानस्यात्मनः सकाशात् , अर्थस्य च स्वकारणेभ्य उत्पत्तेः । ज्ञानस्य प्रकाशरूपत्वात् , अर्थस्य च जडरूपत्वादिति। अतो न ज्ञानाद्वैतेऽभ्युपगम्यमाने बहिरनुभूयमानार्थप्रतीतिः कथमपि सङ्गतिमङ्गति । न च दृष्टमपह्नोतुं शक्यमिति । अत एवाह स्तुतिकारःन संविदद्वैतपथेऽर्थसंवित् इति । सम्यगवैपरीत्येन विद्यतेऽवगम्यते वस्तुस्वरूपमनयेति संवित् । स्वसंवेदनपक्षे तु संवेदनं संवित् ज्ञानम् , तस्या अद्वैतम् , द्वयोर्भावो द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थिकेऽणि, न द्वैतमद्वैतम् बाह्यार्थप्रतिक्षेपादेकत्वं संविदद्वैतं ज्ञानमेवैकं तात्त्विकं न बाह्योऽर्थ इत्यभ्युपगम्यत इत्यर्थः, तस्य पन्था मार्गः संविदद्वैतपथस्तस्मिन् ज्ञानाद्वैतवादपक्ष इति यावत् । किमित्याहनार्थसंवित् । येयं बहिर्मुखतयार्थप्रतीतिः साक्षादनुभूयते सा न घटते इत्युपस्कारः। एतच्चानन्तरमेव भावितम् । एवं च स्थिते सति किमित्याह-विलूनशीर्ण सुगतेन्द्रजालम् इति । सुगतो मायापुत्रस्तस्य सम्बन्धि तेन परिकल्पितं क्षणक्षयादि वस्तुजातमिन्द्रजालमिवेन्द्रजालं, मतिव्यामोहविधातृत्वात् , सुगतेन्द्रजालं सर्वमिदं विलूनशीर्णम्
१ अङ्गति--प्राप्नोति । २ 'प्रज्ञादिभ्योऽण' हैमसूत्र ७-२-१६५ । ३ 'विधायित्वात्' इति क. ह. पुस्तकयोः पाठः ।