________________
श्लोक १७ अन्ययोगव्यवच्छेदिका
१४४ पूर्व विलूनं पश्चात् शर्णि विलूनशीर्णम् ॥ यथा किश्चित् तृणस्तम्बादि विलूनमेव शीर्यते विनश्यात, एवं तत्कल्पितमिदमिन्द्रजालं तृणप्रायं धारांलयुक्तिशस्त्रिकया छिन्नं सद् विशीर्यत इति । अथवा यथानिपुणेन्द्रजालिककल्पितमिन्द्रजालमवास्तवतत्तद्वस्त्वद्भुततोपदर्शनेन तथाविधं बुद्धिदुर्विधं जैनं विप्रतार्य पश्चादिन्द्रधनुरिव निरवयवं विलूनर्णितां कलयति, तथा सुगतपरिकल्पितं तत्तत्प्रमाणतत्तत्कलाभेदक्षणक्षयज्ञानार्थहेतुकत्वज्ञानाद्वैताभ्युपगमादि सर्व प्रमाणानभिज्ञ लोकं व्यामोहयमानमपि युक्त्या विचार्यमाणं विशरारुतामेव सेवत इति । अत्र च सुगतशब्द उपहासार्थः । सौगता हि शोभनं गतं ज्ञानमस्येति सुगतं इत्युशन्ति । ततश्चाहों ? तस्य शोभनज्ञानता, येनेस्थमयुक्तियुक्तमुक्तम् । इति काव्यार्थः ॥१६॥
अथ तत्त्वव्यवस्थापकप्रमाणादिचतुष्टयव्यवहारापलापिनः शून्यवादिनः सौगतजातीयांस्तत्कक्षीकृतपक्षसाधकस्य प्रमाणस्याङ्गीकारानङ्गीकारलक्षणे पक्षद्वयेऽपि तदभिमताथासिद्धिप्रदर्शनपूर्वकमुपहसन्नाह
विना प्रमाणं परवन्न शून्यः
स्वपक्षसिद्धेः पदमश्नुवीत । कुप्यत्कृतान्तः स्पृशते प्रमाण ... महो! सुदृष्टं त्वदसूयिदृष्टम् ॥१७॥
शून्यः शून्यवादी प्रमाणं प्रत्यक्षादिकं विना अन्तरेण स्वपक्षसिद्धेः स्वाभ्युपगतशून्यवादनिष्पत्तेः पदं प्रतिष्ठां नाश्नुवीत न
१ तीक्ष्णधारायुक्तशस्त्रिका । बरच्छीति भाषायाम् । २ 'दुर्विदग्ध' इति ह. पुस्तके पाठः । ३ विशरारुला-विशीर्णशीलता । ४ उशन्ति-इच्छन्ति