________________
श्लोक १६ अन्ययोगव्यवच्छेदिका
१४२ प्रयोगः, प्रतियोगिशब्दो ह्ययं परमपेक्षमाण एव प्रवर्तते । स्वरूपस्यापि भ्रान्त्या भेदप्रतीतिरिति चेत् । हन्त! प्रत्यक्षेण प्रतीतो भेदः कथं न वास्तवः । भ्रान्तं प्रत्यक्षमिति चेत् । ननु कुत एतत् । अनुमानेन ज्ञानार्थयोरभेदसिद्धरित चेत् । किं तदनुमानमिति पृच्छामः । यद्येन सह नियमेनोपलभ्यते तत् ततो न भिद्यते, यथा सच्चन्द्रादसचन्द्रः, नियमेनोपलभ्यते च ज्ञानेन सहार्थः, इति व्यापकानुपलब्धिः–प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापकः सहोपलम्भानियमस्तस्यानुपलब्धिः, भिन्नयोर्नीलपीतयोर्युगपदुपलम्भनियमाभावात्, इत्यनुमानेन तयोरभेदसिद्धिरित चेत् । न, संदिग्धानकान्तिकत्वेनास्यानुमानाभासत्वात्। ज्ञानं हि स्वपरसंवेदनम्, तत्परसंवेदनतामात्रेणैव नीलं गृह्णाति, स्वसंवेदनतामात्रेणैव च नीलबुद्धिम् । तदेवमनयोर्युगपदग्रहणात्सहोपलम्भनियमोऽस्ति, अभेदश्च नास्ति । इति सहोपलम्भनियमरूपस्य हेतोर्विपक्षाद् व्यावृत्तेः संदिग्धत्वात् संदिग्धानैकान्तिकत्वम् । . .
असिद्धश्च सहोपलम्भनियमः · नीलमेतत्' इति बहिर्मुखतयार्थेनुभूयमाने तदानीमेवान्तरस्य नीलानुभवस्याननुभावात् । इति कथं प्रत्यक्षम्यानुमानेन ज्ञानार्थयोरभेदसिध्या भ्रान्तत्वम् । अपि च, प्रत्यक्षस्य भ्रान्तत्वेनाबाधितविषयत्वादनुमानस्यात्मलाभः, लब्धात्मके चानुमाने प्रत्यक्षस्य भ्रान्तत्वम्, इत्यन्योन्याश्रयदोषोऽपि दुर्निवारः। अर्थाभावे च नियतदशाधिकरणाप्रतीतिः कुतः । न हि तत्र विवक्षितदेशेऽयनारोपयितव्यो नान्यत्रेत्यस्ति नियमहेतुः । वासनानियमात्तदारोपनियम इति चेत् । न, तस्या अपि तद्देशानियमकार णाभावात् । सति ह्यर्थसद्भावे यद्देशोऽर्थस्तद्देशोऽनुभवः तदेशा च तत्पूर्विका वासना । बाह्यार्थाभावे तु तस्याः किंकृतो देशनियमः । अथास्ति तावदारोपनियमः । न च कारणविशेषमन्तरण