________________
श्लोक १६
त्पाद इत्येकान्तेः स्थूलादपि सूत्रपटलादेः स्थूलस्य पटादेः प्रादुर्भावविभावनात् । आत्माकाशादेरपुद्गलत्वकक्षीकाराच्च । यत्र पुनरणुभ्यस्तदुत्पत्तिस्तत्र तत्कालादिसामग्रीसव्यपेक्षक्रियावशात् प्रांदुर्भूतं संयोगातिशयमपेक्ष्येयमावतैथैव । यदपि किञ्श्चायमनेकावयवा - धार इत्यादि न्यगादि, तत्रापि कथञ्चिद्विरोध्यनेकावयवाविष्वग्भूतवृत्तिरवयव्यभिधीयते । तत्र च यद्विरोध्यनेकावयवधारतायां विरुद्धधर्माध्यासनमभिहितं तत्कथञ्चिदुपेयत एव । तावदवयवात्मकस्य तस्यापि कथञ्चिदनेकरूपत्वात् । यच्चोपन्यस्तम् - अपिच, असौ तेषु वर्तमानः कात्स्न्येनैकदेशेन वा वर्तेतेत्यादि । तत्रापि विकल्पद्वयानभ्युपगम एवोत्तरम् | अविष्वग्भावेनावयविनोऽवयवेषु वृत्तेः स्वीकारात् । किञ्च यदि बाह्योऽर्थो नास्ति, किमिदानीं नियताकारं प्रतीयते नीलमेतत् इति । विज्ञानाकारोऽयमिति चेत् । न, ज्ञानाद वहिर्भूतस्य संवेदनात् 1 ज्ञानाकारत्वे तु ' अहं नीलम् ' इति प्रतीतिः स्यान्न तु ' इदं नीलम्' इति । ज्ञानानां प्रत्येकमाकारभेदात् कस्यचित् ' अहम् ' इति प्रतिभासः, कस्यचित् ' नीलमेतत् ' इति चेत् । नीलाद्याकारवदहमित्याकारस्य व्यवस्थितत्वाभावात् । तथा च यदेकेनाहमिति प्रतीयते तदेवापरेण त्वमिति प्रतीयते । नीलाद्याकारस्तु व्यवस्थितः सर्वैरप्येकरूपतया ग्रहणात् । भक्षितहृत्पूरादिभिस्तु यद्यपि नीलादिकं पीतादितया गृह्यते, तथापि तेन न व्यभिचारः, तस्य भ्रान्तत्वात् । स्वयं स्वस्य संवेदनेऽहमिति प्रतिभास इति चेत् । ननु किं परस्यापि संवेदनमस्ति, कथमन्यथा स्वशब्दस्य
"
१४१
स्याद्वादमञ्जरीसहिता
१ एकान्तः - नियमः ।
२ ' पुद्गलकार्यत्व' इति ह पुस्तके पाठः ।
३ 'अविरुद्धैव' इति क . पुस्तके पाठः ।
४ हृत्पूरः पित्तरोगकरः फलविशेषस्तद्भक्षणेन पित्तपीतिम्ना सर्वे पदार्थाः पीता इव भासते ।