________________
श्लोक १६
अन्ययोगव्यवच्छेदिका षयाया जप्तेरघटनात् । न चाकाशकेशादौ निर्विषयमपि दृष्टं ज्ञानमिति वाच्यम् । तस्याप्येकान्तेन निर्विषयत्वाभावात् । न हि सर्वथागृहतिसत्यकेशज्ञानस्य तत्प्रतीतिः । स्वमज्ञानमप्यनुभूतदृष्टाद्यर्थविषयत्वान्न निरालम्बनम् । तथा च महाभाष्यकारः-. " अणुहूयदिठ्ठचिंतियसुयपयइवियारदेवयाणूवा । सुप्रिणस्य निमित्ताइं पुण्णं पावं च णाभावो" ॥१॥
यश्च ज्ञानविषयः स बाह्योऽर्थः । भ्रान्तिरियमिति चेत् । चिरं जीव, भ्रान्तिर्हि मुख्येऽर्थे क्वचिद् दृष्टे सति करणापाटवादिनान्यत्र विपर्यस्तग्रहणे प्रसिद्धा, यथा शुक्तौ रजतभ्रान्तिः । अर्थक्रियासमर्थेऽपि वस्तुनि यदि भ्रान्तिरुच्यते, तर्हि प्रलीना भ्रान्ताभ्रान्तव्यवस्था । तथा च सत्यमेतद्वचः - "आशामोदकतृप्ता ये ये चास्वादितमोदकाः। रसवीर्यविपाकादि तुल्यं तेषां प्रसज्यते"॥१॥
न चामून्यर्थदूषणानि स्याद्वादवादिनां बाधां विदधते, परमाणुरूपस्य, स्थूलावयविरूपस्य चार्थस्याङ्गीकृतत्वात् । यच्च परमाणुपक्षखण्डनेऽभिहितं-प्रमाणाभावादिति । तदसत् , तत्कार्याणां घटादीनां प्रत्यक्षत्वे तेषामाप कथञ्चित् प्रत्यक्षत्वं, योगिप्रत्यक्षेण च साक्षात्प्रत्यक्षत्वमवसेयम् । अनुपलब्धिस्तु सौक्ष्म्यात् । अनुमानादपि तत्सिद्धिः, यथा सन्ति परमाणवः, स्थूलावयविनिष्पत्त्यन्यथानुपपत्तेः, इत्यन्तयाप्तिः । न चाणुभ्यः स्थूलो
१ अयं महाभाष्यकारः युगप्रधानाचार्यः श्रीजिनभद्रगणिक्षमाश्रमणपादाः । अनेन आवश्यकसूत्रस्य सामायिकाख्यस्य प्रथमाध्ययनस्य मूलसूत्रोपरि तदेव विशेषावश्यकसंज्ञकं गाथात्मकं भाष्यं रचितमस्ति । तत् महाभाष्यमभिधीयते तत्रेयं १७०३ परिमिता गाथा।
२ छाया-अनुभूतदृष्टचिन्तितश्रुतप्रकृतिविकारदैविकाऽनूपाः वा । स्वप्नस्य निमित्तानि पुण्यं पापं च नाभावः ॥१७०३।।