________________
स्याद्वादमञ्जरीसहिता
श्लोक १६ एकस्मिन्नेव स्थूलावयविनि चलाचलरक्तारक्ततानातादिविरुद्धावयवानामुपलब्धेः । अपि च, असौ तेषु वर्तमानः कात्स्न्र्येन, एकदेशेन वा वर्तते । कात्स्न्येन वृत्तावेकस्मिन्नेवावयवे परिसमाप्तत्वादनेकावयवत्तित्वं न स्यात् प्रत्यवयवं कात्स्न्येन वृत्तौ चावयविबहुत्वापत्तेः। एकदेशेन वृत्तौ च तस्य निरंशत्वाभ्युपगमविरोधः । सांशत्वे वा तेंऽशास्ततो भिन्नाः, अभिन्ना वा । भिन्नत्वे पुनरप्यनेकांशहत्तेरेकस्य कात्स्न्यैकदेशविकल्पानतिक्रमादनवस्था । अभिन्नत्वे न केचिदंशाः स्युः । इति नास्ति बाह्योऽर्थः कश्चित् । किन्तु ज्ञानमेवेदं सर्व नीलाद्याकारेण प्रतिभाति, बाह्यार्थस्य जडत्वेन प्रतिभासायोगात् । यथोक्तम् “ स्वाकारबुद्धिजनका दृश्या नेन्द्रियगोचराः" । अलङ्कारेकारेणाप्युक्तम्
“ यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते । न चेत् संवेद्यते नीलं कथं बाह्यं तदुच्यते ?॥"
यदि बाह्योऽर्थो नास्ति, किंविषयस्त_यं घटपटादिप्रतिभासः इति चेत् । ननु निरालम्बन एवायमनादिवितथवासनाप्रवर्तितः, निर्विषयत्वात् , . आकाशकेशज्ञानवत् , स्वमज्ञानवद् वेति । अत एवोक्तम्-- . "नान्योऽनुभाव्यो बुध्द्यास्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥१॥ बाह्यो न विद्यते ह्यर्थो यथा बालैर्विकल्प्यते । वासनालुठितं चित्तमर्थाभासे प्रवर्तते" ॥२॥ इति ।
तदेतत्सर्वमवद्यम् , ज्ञानमिति हि क्रियाशब्दः, ततो ज्ञायतेऽनेनेति ज्ञानं, ज्ञप्तिर्वा ज्ञानमिति । अस्य च कर्मणा भाव्यं, निर्वि१ बाधः' इति ख. घ. रा. पुस्तकेषु पाठः ।। २ प्रज्ञाकरगुप्तकृतः प्रमाणवार्तिकालङ्कारौख्यो बौद्धग्रन्थोऽस्ति ।