________________
श्लोक १६ अन्ययोगव्यवच्छेदिका
१३८ सत्त्वं वा स्यान्निरपेक्षत्वात् । अपेक्षातो हि कादाचित्कत्वम् । सहेतुकाचेत्, किं तेषां स्थूलं किंचित् कारणं परमाणवो वा । न स्थूलं परमाणुरूपस्यैव बाह्यार्थस्याङ्गीकृतत्वात् । न च परमाणवः, ते हि सन्तोऽसन्तः सदसन्तो वा स्वकार्याणि कुर्युः । सन्तश्चेत्, किमुत्पत्तिक्षण एव, क्षणान्तरे वा । नोत्पत्तिक्षणे, तदानीमुत्पत्तिमात्रव्यग्रत्वात् तेषाम् । अथ “भूतिर्येषां क्रिया सैव कारणं सैव चोच्यते” इति वचनाद् भवनमेव तेषामपरोत्पत्तो कारणमिति चेत्, एवं तर्हि रूपाणवो रसाणूनाम्, ते च तेषामुपादानं स्युः, उभयत्र भवनाविशेषात् । न च क्षणान्तरे, विनष्टत्वात् । अथासन्तस्ते तदुत्पादकाः, तर्हि एकं स्वसत्ताक्षणमपहाय सदा तंदुत्पत्तिप्रसङ्गः, तदसत्त्वस्य सर्वदाविशेषात् । सदसत्पक्षस्तु “प्रत्येकं यो भवेदोषो द्वयोर्भावे कथं न सः" इति वचनाद्विरोधाघ्रात एव । तन्नाणवः क्षाणकाः । नापि कालान्तरस्थायिनः क्षणिकपक्षसदृक्षयोगक्षेमत्वात् ।
किञ्च, अमी कियत्कालस्थायिनोऽपि किमर्थक्रियापराङ्मुखाः तत्कारिणो वा । आये खपुष्पवदसत्त्वापत्तिः । उदग्विकल्पे किमसद्रूपं सद्रूपमुभयरूपं वा ते कार्य कुर्युः । असद्रूपं चेत्, शशविषाणादेरपि किं न करणम् । सद्रूपं चेत् , सतोऽपि करणेऽनवस्था । तृतीयभेदस्तु प्राग्वद्विरोधदुर्गन्धः । तन्नाणुरूपोऽर्थः सर्वथा घटते ।
___ नापि स्थूलावयविरूपः एकपरमाण्वसिद्धौ कथमनेकतत्सिद्धिः तद्भावे च तत्प्रचयरूपः स्थूलावयवी वाङ्मात्रम् । किञ्च, अयमनेकावयवाधार इष्यते । ते चावयवा यदि विरोधिनः, तर्हि नैकस्थूलावयवी, विरुद्धधर्माध्यासात् । अविरोधिनश्चेत्, - प्रतीतिबाधः,
१ 'निरपेक्षत्वात्' इति ख पुस्तके नास्ति । २ 'कारणता' इति क, पुस्तके पाठः।