________________
२३७
स्याद्वदमञ्जरीसहिता
श्लोक ३० प्रत्येकं नयानां विरुद्धत्वे कथं समुदितानां निर्विरोधिता। उच्यतेयथा हि समीचीनं मध्यस्थं न्यायनिर्णेतारमासाद्य परस्परं विवदमाना अपि वादिनो विवादाद् विरमन्ति, एवं नया अन्योऽन्य वैरायमाणा-अपि सर्वज्ञशासनमुपेत्य स्याच्छब्दप्रयोगोपशमितविप्रतिपत्तयः सन्तः परस्परमत्यन्तं सुहृ यावतिष्ठन्ते । एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वमविरुद्धमेव, नयरूपत्वाद् दर्शनानाम् । न च वाच्यं तर्हि भगवत्समयस्तेषु कथं नोपलभ्यते इति । समुद्रस्य सर्वसरिन्मयत्वेऽपि विभक्तासु तासु अनुपलम्भात् । तथा च वक्तृवचनयोरैक्यमध्यवस्य श्रीसिद्धसेनदिवाकरपादाः
"उद्धाविव सर्वसिन्धवः
समुदीर्णास्त्वयि नाथ ! दृष्टयः। न च तासु भवान् प्रदृश्यते
प्रविभक्तासु सरित्स्विवोदधिः "॥१॥ अन्ये त्वेवं व्याचक्षते-तथा अन्योन्यपक्षप्रतिपक्षभावात् परे प्रवादा मत्सरिणस्तथा तव समयः सर्वनयान् मध्यस्थतयाङ्गीकुर्वाणो न मत्सरी । यतः कथंभूतः, पक्षपाती-पक्षमेकपक्षाभिनिवेशम् , पातयति तिरस्करोतीति पक्षपाती, रागस्य जीवनाशं नष्टत्वात् । अत्र च व्याख्याने मत्सरीति विधेयपदम् , पूर्वस्मिंश्च पक्षपातीति विशेषः। अत्र च क्लिष्टाक्लिष्टव्याख्यानविवेको विवेकिभिः स्वयं कार्यः। इति काव्यार्थः ॥ ३०॥
इत्थङ्कारं कतिपयपदार्थविवेचनद्वारेण स्वामिनो यथार्थवादा१ 'सार्वश्यं शासनम्' इति क. ख, घ. रा. पुस्तकेषु पाठः। . २ 'सुहृद्रूपतया' इति घ. रा. पुस्तकयोः पाठः । ३ द्वात्रिंशद्वात्रिंशिकास्तोत्रे चतुर्थद्वात्रिंशिकायां १५ श्लोकः। ... ४ जीवनाश-संपूर्णतयेत्यर्थः। रागस्येत्यारभ्य नष्टत्वादित्यन्तं ख. पुस्तके नास्ति ।