SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ श्लोक ३० अन्ययोगव्यवच्छेदिका ___२३६ एति गच्छति शब्दोऽर्थमनेन इति "पुन्नाम्नि घः।" समयः संकेतः, यद्वा सम्यग अवैपरीत्येन अय्यन्ते ज्ञायन्ते जीवा-जीवादयोऽर्था अनेन, इति समयः सिद्धान्तः, अथवा सम्यग् अयन्ते गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् स्वरूपे प्रतिष्ठां प्राप्नुवन्ति अस्मिन् इति समय आगमः, न पक्षपाती नैकपक्षानुरागी। पक्षपातित्वस्य हि कारणं मत्सरित्वं परप्रवादेषु उक्तम्, त्वत्समयस्य च मत्सरित्वाभावाद् न पक्षपातित्वम् । पक्षपातित्वं हि मत्सरित्वेन व्याप्तम्, 'व्यापकं च निवर्तमानं व्याप्यमपि निवर्तयति'इति मत्सारित्वे निवर्तमाने पक्षपातित्वमाप निवर्तत •इति भावः । तव समय इति. वाच्यवाचकभावलक्षणे सम्बन्धे षष्ठी । मूत्रापेक्षया गणधरकर्तृकत्वेऽपि समयस्य अर्थापेक्षया भगवत्कर्तृकत्वाद वाच्यवाचकभावो न विरुध्यते "अत्थं भासइअरहा सुत्तं गंथंतिगणहरा णिउणं" इति वचनात्,अथवा उत्पाद-व्यय-ध्रौव्यप्रपञ्च :समयः तेषां च भगवता साक्षान्मातृकापदरूपतयाभिधानात् । तथा चार्षम्-"उपनेइ वा, विगमेइ वा धुवेइ वा" इत्यदोषः। मत्सरित्वाभावमेव विशेषणद्वारेण समर्थयति-नयानशेषानविशेषमिच्छन् इति । अशेषान् समस्तान् नयान नैगमादीन्, अविशेषं निर्विशेषं यथा भवति एवम् इच्छन् आकाइन् , सर्वनयात्मकत्वाद अनेकान्तवादस्य । यथा विशकलितानां मुक्तामणीनामेकसूत्रानुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकमूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेश इति । ननु १ हैमसूत्रम् ५।३।१३०. २ विशेषावश्यकभाष्य गाथा १११९ । अर्थ भाषतेऽर्हर सूत्र प्रश्नन्ति गणधरा निपुणम् । इति छाया। ३ मातृका-लिपिर्मूलाक्षराणि । ४ उत्पद्यते वा विगच्छति ( नश्यति) वा ध्रुवयति वा । इति छाया। .
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy