________________
(४६)
तेनात्मधर्मो भेदानामेकधीविषयोऽस्ति नः । सामान्यमाकृतिर्जातिः शक्तिर्वा सोऽभिधीयताम् ॥ १८ ॥ ननु भिन्नेऽपि सत्तादौ सामान्यमिति जायते । बुद्धिर्विनाऽपि सामान्यादन्यस्मात्सा कथं भवेत् ॥१९॥ वनोपन्यासतुल्योऽयमुपन्यासः कृतस्त्वया । . भ्रान्तित्वेन हि नैतस्या भ्रान्तिर्गोत्वादिधीरपि ॥ २० ॥ शब्दात्पूर्व हि सर्वेषु गवादाविव नैकधीः। ... वस्तुत्वं चात्र सामान्यं धर्म केचित्प्रचक्षते ॥२१॥ . एवं तु कल्प्यमाने स्यात्सामान्यानामनन्तता । पुनस्तेन सहान्येषु सामान्यमतिरस्ति हि ॥२२॥ विशेषेष्वपि वस्तुत्वात्सामान्यमिति धीर्भवेत् ।। सत्तादिष्विव, तेनैतत्सामान्यं नोपपद्यते ॥२३॥ तस्मादेकस्य भिन्नेषु या वृत्तिस्तन्निबन्धनः। सामान्यशब्दः सत्तादावेकधीकरणेन वा ॥२४॥ पिण्डेष्वेव च सामान्यं नान्तरा गृह्यते रातः । न ह्याकाशवदिच्छन्ति सामान्यं नाम किचन ॥२५॥ यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्तयनुरोधतः । शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ॥२६॥ तेन यत्रैव दृश्येत व्यक्तिः शक्तं तदेव तु । तेनैव च न सर्वासु व्यक्तिष्वेतत्प्रतीयते ॥ २७ ॥ भिन्नत्वेऽपि हि कासांचिच्छक्तिः काश्चिदशक्तिकाः। न च पर्यनुयोगोऽस्ति वस्तुशक्तेः कदाचन ॥ २८ ॥ वह्निर्दहाति नाऽऽकाशं कोऽत्र पर्यनुयुज्यताम् । न चान्या मृग्यते युक्तिर्यथा संदृश्यते तथा ॥ २९ ॥