________________
(४७) न हि युक्तयन्तरं नास्तीत्येतज्ज्ञानमनर्थकम् । धर्मश्चाऽव्यभिचार्यस्य न मृग्य उपलक्षणे ॥३०॥ नाऽनुमानाऽवगम्यं तत्, प्रत्यक्षे लक्षणेन किम् । . 'स्वाभाविकश्च सम्बन्धो जातिव्यक्तयोर्न हेतुमान् ॥ ३१ ॥ तेनैतस्य प्रसिध्द्यर्थ नाऽन्यत्सामान्यमिष्यते । शक्तिसिद्धिवदेतस्य स्वभावोऽत्र न वार्यते ॥ ३२ ॥ यद्वा नैमित्तिकत्वेऽपि तावन्मात्रप्रतीक्षणात् । विशेषेष्वेव लब्धेषु केषुचिन्नाऽन्यवाञ्छनम् ॥३३॥ न व्यञ्जन्त्यपरे कस्माद्यतस्तेषु न दृश्यते । तेभ्योऽपि न निवृत्त्यर्थं मृग्यो हेतुः स्वभावतः ॥ ३४ ॥ सामान्य नान्यदिष्टं चेत्तस्य वृत्तेर्नियामकम् । गोत्वेनाऽपि विना कस्माद्गोबुद्धिर्न नियम्यते ॥ ३५ ॥ यथा तुल्येऽपि भिन्नत्वे केषुचिद्वृत्त्यपेक्षिता । गोत्वादेरनिमित्तेऽपि तथा बुद्धिर्भविष्यति ॥३६॥ विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥३७॥ ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहते। . न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ॥३८॥ अनिष्यमाणे सामान्ये वृत्तिः शब्दानुमानयोः । नैव स्यान्न हि सम्बन्धो भेदैरानन्त्यतो भवेत् ॥३९॥ अनुभूततया चाऽसौ पुरुषस्योपयुज्यते । जातिव्यक्तयोस्तु सम्बन्धे नाऽनुभूत्या प्रयोजनम् ॥४०॥ 'सिद्धे विषयरूपे च गोत्वादाविन्द्रियैः पुनः । अर्थापत्त्युपलब्धा स्याच्छक्तिरेका नियामिका ॥ ४१ ॥