________________
(४८)
न चाऽऽत्महेतुमेवाऽसौ सिद्धं बाधितुमर्हति । . शक्तिश्च नैतया बुध्या नेन्द्रियैः सा हि गृह्यते ॥ ४२ ॥ सामान्यान्तरयोगानामनिष्टा या च वर्ण्यते । तया सामान्यनाशः स्यात्स च दृष्टेन बाध्यते ॥ ४३ ॥ सम्बन्धस्तस्य हेतुर्वा तद्ग्रहे न च कारणम् । ... स्वरूपतो गृहीतेऽर्थे पश्चादेतद्विकल्प्यते ॥ ४४ ॥ सास्नाद्येकार्थसम्बन्धि गोत्वमित्युपलक्षणम् । . न च स्वसमवाय्येव केवलं चिह्नमिष्यते ॥ ४५ ॥ सास्नादिभ्यस्तु पिण्डस्य भेदो नाऽत्यन्ततो यदा । . सामान्यस्य च पिण्डेभ्यस्तदा स्यादेतदुत्तरम् ॥ ४६॥ कस्मात् सास्नादिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माच्चेत् स्वभावादिति गम्यताम् ॥४७॥ उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । स्वतो गोत्वादिभेदस्तु न तु व्यञ्जकभेदतः ॥ ४८ ॥ मा भूद् द्रुतादिवन्मिथ्या 'व्यञ्जकस्य तु किंकृतः। भेदो हस्त्यादिपिण्डेभ्यः' स्वतश्चेदिह तत्समम् ॥ ४९ ॥ व्यङयजातिविशेषाच्चेत् प्राप्तमन्योन्यसंश्रयम् । तस्मात् स्वाभाविको भेदो जातिव्यक्तयोः प्रतीयते ॥५०॥ अनेकाऽनन्यवृत्तित्त्वान्न सामान्यविशेषयोः । एकवस्त्वात्मता युक्ता किं चित्तेनौपचारिकम् ॥५१॥ भिन्नेभ्यश्चाप्यभिन्नत्वा दस्तत्स्वात्मवद्भवेत् । एकस्माद्वाऽप्यभिन्नत्वाब्यक्तयेकत्वं प्रतीयते ॥ ५२ ॥ . एकाऽनेकत्वमेकस्य तथाऽन्याऽनन्यता कथम् । तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ॥ ५३ ॥