________________
(४९) विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते । सामान्याऽनन्यविज्ञाते विशेषे नैकवृत्तिता ॥५४॥ सामान्याऽनन्यवृत्तित्वं विशेषाऽऽत्मैकभावतः। एवञ्च परिहर्तव्या भिन्नाभिन्नत्वकल्पना ॥ ५५ ॥. केनचिध्यात्मनैकत्वं नानात्वं चास्य केनचित् । सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतः ॥ ५६ ॥ दर्शयित्वाऽभ्युपेतव्यं, विशेषैक्यं च जातितः। यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ॥ ५७ ॥ चित्रत्वाद्वस्तुनोऽप्येवं भेदाऽभेदाऽवधारणम् । सामान्यांशे तु निष्कृष्य भेदो येन प्रसाध्यते ॥ ५८ ॥ तस्य हेतोरसिद्धत्वं सिद्धश्चेत् सिद्धसाधनम् । भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा ॥ ५९ ॥ तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं तद्भावाऽनुगुणं स्थितम् ॥ ६० ॥ सदप्यग्राह्यरूपत्वादसद्वत् प्रतिभाति नः । विशेषानपि सामान्यायदा भेदेन बुध्यते ।। ६१ ॥ तदा सामान्यमानत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत् प्रतिपद्यते ॥ ६२ ॥ तदाऽन्याऽनन्यभेदादि सर्वमेव प्रलीयते । नच तत्तादृशं कश्चिच्छब्दः शक्नोति भाषितुम् ।। ६३ ॥ सामान्यांशानपोष्टत्य पदं सर्व प्रवर्त्तते । समस्तवस्त्वपेक्षां च पदार्थानामपोष्टतिम् ॥ ६४॥ केचिदाहुरसद्रूपामंशत्वं तु न वार्यते । सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते ॥ ६५ ॥