________________
(५०) तेन सारूप्यशब्देन किं पुनः प्रतिपद्यते । समानरूपभावश्चेज्जातिः साऽस्माभिरिष्यते ॥६६॥ मादृश्यमथ सारूप्यं कस्य केनति कथ्यताम् । न तावच्छाबलेयेन बाहुलेयादयः समाः ॥ ६७ ॥ विशेषरूपतो, येऽपि तत्संस्थानादिभिः समाः । ... शाबलेय इवेति स्यात्तत्र बुद्धिर्न गौरिव ॥ ६८॥ शाबलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति धीः । शाबलेयस्वरूपं च न गौरित्यवतिष्ठते ॥.६९ ॥ . तदन्येषु हि गोबुद्धिर्न स्यात् सुसदृशेष्वपि । . दृश्यते सा न चान्यत्र गोरूपं तत्र विद्यते ॥७० ॥ न चान्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन धीभवेत् । न चापि स इति ज्ञानं सदृशेष्वास्त सर्वदा ॥ ७१॥ सर्वपुंसामतो भ्रान्ति षा बाधकवर्जनात् । सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ ७२ ॥ विशेषग्रहणाऽभावादेव गौंः कश्च कथ्यताम् । बभूव यद्यसौ पूर्वमस्मदादेस्तदग्रहात् ॥ ७३ ॥ सादृश्यावधृतिर्नास्तीत्यतो गोधीन लभ्यते । न चाऽवयवसामान्यैर्विना सादृश्यकल्पना ॥७४ ॥ सामान्यप्रत्ययोत्पादो न विशेषेषु जायते । ' व्यक्तितश्चातिरेकोऽस्य स्यान्न वेति विचारिते ॥७५ ॥ सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमांत्रकम् । तेन नात्यन्तभिन्नोऽर्थः सारूप्यमिति वर्णितम् ॥ ७६ ।। ग्रन्थे विन्ध्यनिवासेन भ्रान्ते सादृश्यमुच्यते ।।