________________
(५१)
श्लो. १५ स्याद्वादमञ्जर्यां च सांख्यमतस्य खण्डनं तदर्थं स्वयं मज - रीकृता 'ईश्वरकृष्णकारिका' निर्दिष्टास्तेन पुनस्तत्कारिका न निर्दिश्यन्ते । श्लो. १६ प्रमाणतत्फलाभेदरूपोऽभ्युपगमो बौद्धानां खण्डयते तदर्थं न्यायविन्दुसूत्रं धर्मकीर्तिप्रणीतं निर्दिश्यते ।
“ विषयप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह
1
1
तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।। १-१८॥ यदेवानन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफलमित्याह | अर्थस्य प्रतीतिरवगमः । सैव रूपं यस्य प्रत्यक्षज्ञानस्य तदर्थ - तीतिरूपम् । तस्य भावः । तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्व न केवलादर्थाविनाभावित्वाद्भवति । बीजाद्यविनाभाविनोऽप्यंकुरादेरप्रापकत्वात् । तस्मादर्थादुत्पत्तावप्यस्य ज्ञानस्यास्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारः । येन कृतेनार्थः प्रापितो भवति । स एव च प्रमाणफलम् । यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृत्तिविषयकदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम । तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थदर्शनरूपम् । अतस्तदेव प्रमाणफलम् ॥ १८ ॥
यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याहअर्थसारूध्यमस्य प्रमाणम् ॥ १-१९ ॥
अर्थेन सह यत्सारूप्यं सादृश्यमस्य ज्ञानस्य तत्प्रमाणमिह । यस्माद्विपयाज्ज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते ।। १९ ।
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते । तत्कथं सारूप्यप्रमाणमित्याह
तद्वशादर्थप्रतीतिसिद्धेरिति ॥ १-२० ।।
तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिस्तस्या बोधः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्य - वशात्सिध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासं हि विज्ञानं यतस्तस्मान्नी