________________
(४५)
विशेषमात्र इष्टे च न सामान्यमतिर्भवेत् । सामान्यमात्रबोधे तु निर्निमित्ता विशेषधीः ॥ ६ ॥ न चाप्यन्यतरा भ्रान्तिरुपचारेण चेष्यते । दृढत्वात्सर्वदा बुद्धान्तिस्तदभ्रान्तिवादिनाम् ॥ ७ ॥ मुख्ययोश्चाप्यदृष्टत्वान्नोपचारेण कल्पना । बाह्यार्थविषयत्वं च बुद्धीनां प्रतिपादितम् ॥ ८॥ अन्योन्यापेक्षिता नित्यं स्यात्सामान्यविशेषयोः। विशेषाणां च सामान्यं ते च तस्य भवन्ति हि ॥ ९॥ निर्विशेषं न सामान्यं भवेच्छशविषाणवत् । सामान्यरहितत्वाच्च विशेषास्तद्वदेव हि ॥ १० ॥ तदनात्मकरूपेण हेतू वाच्याविमौ पुनः । तेन नाऽत्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ॥ ११ ॥ सामान्यबुद्धिशक्तत्वं विशेषेष्वेव यो वदेत् । विना वस्त्वन्तरात्तेन वाच्यशक्तिस्तु कीदृशी ॥ १२ ॥ ग्राह्या किं वाप्यसंबोधा भिन्नैका वा तथैव च । गृह्यते यदि सका च जातिरेवान्यशब्दिका ॥ १३ ॥ भवेनिर्विषया बुद्धिदि शक्तिर्न गृह्यते। न हि सद्भावमात्रेण विषयः कश्चिदिष्यते ॥ १४॥ परस्परविभिन्नत्वाद्विशेषा नैकबुद्धिभिः । गृह्यन्ते विषयाऽसत्त्वाच्छक्तिश्चैषां न विद्यते ॥ १५ ॥ भिन्नत्वे वाऽपि शक्तीनामेकबुद्धिर्न लभ्यते । विशेषशक्त्यभेदे च तावन्मात्रमतिर्भवेत् ॥ १६ ॥ भिन्ना विशेषशक्तिभ्यः सर्वत्रानुगताऽपि च । प्रत्येकं समवेता च तस्माज्जातिरपीष्यताम् ॥ १७ ॥