________________
(४४) 'ब्राह्मणो यजेत' इत्यादीनि शास्त्राण्यात्मनि वर्णाश्रमवयोऽवस्थादिविशेषाध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्धिरित्यवोचाम । तद्यथा पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति। तथा देहधर्मान्- स्थूलोऽहं, कृशोऽहं गौरोऽहं, तिष्ठामि, गच्छामि, लवथामि चेति । तथेन्द्रियधर्मान् मूकः, काणः, क्लीबः, बधिरः, अन्धोऽहमिति । तथान्तःकरणधर्मान कामसङ्कल्प. विचिकित्साध्यवसायादीन् । एवमहंप्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं च प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यांसो मिथ्याप्रत्ययरूपः कर्तृत्व भोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्यानर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ॥'.
श्ला. १४ स्याद्वादमञ्जर्यां [.पृ. १०६ ] मीमांसकैर्जातिरङ्गीक्रियते तद्वदेव सांख्यैरद्वैतिभिश्चेत्यर्थकमुक्तं तदर्थं मीमांसाश्लोकवार्तिके १-१--५ आकृतिवादः ।
अथाऽऽकृतिवादः। आकृतिव्यतिरिक्तेऽर्थे सम्बन्धो नित्यताऽस्य च । न सिध्येतामिति ज्ञात्वा तद्वाच्यत्वमिहोच्यते ॥ १॥ तत्सद्भावप्रसिध्द्यर्थमत्र तावत्प्रयत्यते । वाच्यत्वे वक्ष्यते युक्तिय॑क्त्या सह बलाऽबले ॥२॥ जातिमेवाऽऽकृति प्राहुर्व्यक्तिराक्रियते यया। सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥ ३॥ तन्निमित्तं च यत्किञ्चित्सामान्यं शब्दगोचरम् । सर्व एवेच्छतीत्येवमविरोधोऽत्र वादिनाम् ॥ ४ ॥ सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका। जायते ह्यात्मकत्वेन विना सा च न सिध्यति ॥५॥