________________
स्याद्वादमञ्जरीसहिता
श्लोक २८ दशविधद्रव्यप्राणधारणाद् जीवाः, सिद्धाश्च ज्ञानादिभावप्राणधारणाद् इति सिद्धम् । दुर्जयस्वरूपं चोत्तरकाव्ये व्याख्यास्यामः । इति काव्यार्थः ॥२७॥
साम्प्रतं दुर्नय-नय-प्रमाणप्ररूपणद्वारेण "प्रमाणनयधिगमः" इति वचनाद् जीवाजीवादितत्त्वाधिगमनिबन्धनानां प्रमाणनयानां प्रतिपादयितुः स्वामिनः स्याद्वादविरोधिदुर्नयमार्गनिराकरिष्णुमनन्यसामान्यं वचनातिशयं स्तुवन्नाह
सदेव सत् स्यात्सदिति त्रिधार्थों
मीयेत दुर्नीति-नय-प्रमाणैः। यथार्थदर्शी तु नय-प्रमाण
पथेन दुर्नीतिपथं त्वमास्थः॥२८॥ अर्यते परिच्छिद्यत इत्यर्थः, पदार्थः त्रिधा त्रिभिः प्रकारैःमीयेत परिच्छिद्येत, विधौ सप्तमी । कैत्रिभिः प्रकारैः, इत्याह-दुर्नीतिनय-प्रमाणैः नीयते परिच्छिद्यते एकदेशविशिष्टोऽर्थ आभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नया इत्यर्थः। नया नैगमादयः, प्रमीयते परिच्छिद्यतेऽर्थोऽनेकान्तविशिष्टोऽनेन इति प्रमाणम्-स्याद्वादात्मकं प्रत्यक्ष-परोक्षलक्षणम् । दुर्नीतयश्च नयाश्च प्रमाणे च दुर्नीतिनय-प्रमाणानि तैः। केनोल्लेखेन मीयेत, इत्याह-सदेव सत् स्यात्सद् इति । सदिति अवक्तव्यत्वाद् नपुंसकत्वम् यथा किं तस्या गर्भे जातमिति । सदेवेति दुर्नयः सदिति नयः, स्यात्सदिति प्रमा
१ पञ्चेन्द्रियाणि ६ श्वासोच्छ्वास ७ आयुष्य ८ मनोबल ९ वचनबल १० शारीरबलानीति दश द्रव्यप्राणाः । शान्तिसूरिकृतजीवविचारः गाथा ४२ । २ तत्त्वार्थसूत्रप्रथमाध्यायसू. ६।। ३ अतःपरं 'तेषाम्' इत्याधिकं ह. पुस्तके । ४ इयं च हैमव्याकरणप्रसिद्धा लिङ्लकारस्य संज्ञा ।