________________
श्लोक २७ अन्ययोगव्यवच्छेदिका
२०६ "अवस्थिस्तय द्रव्यस्य पूर्वधर्मनिवृत्तौ धर्मान्तरोत्पत्तिः परिणामः" इति । एवं सामान्यविशेषसदसदभिलाप्यानभिलाप्यैकान्तवादेष्वपि सुखदुःखाद्यभावः स्वयमभियुक्तैरभ्यूह्यः।
अथोत्तरार्धव्याख्या-एवमनुपपद्यमानेऽपि सुख-दुःखभोगादिव्यवहारे परैः परतीर्थिकैरथ च परमार्थतः शत्रुभिः, परशब्दो हि शत्रुपर्यायोऽप्यस्ति, दुर्नीतिवादव्यसनासिना-नीयते एकदेशविशिष्टोऽर्थः प्रतीतिविषयमाभिरिति नीतयो नयाः, दुष्टा नीतयो दुर्नीतयो दुर्नयाः, तेपां वदनं परेभ्यः प्रतिपादनं दुर्नीतिवादः, तत्र यद् व्यसनम्-अत्यासक्तिः-औचित्यनिरपेक्षा प्रवृत्तिरिति यावत्, दुर्नीतिवादव्यसनम्, तदेव सद्बोधशरीरोच्छेदनशक्तियुक्तत्वाद् असिरिव असिः कृपाणो दुर्नीतिवादव्यसनासिः, तेन दुनीतिवादव्यसनासिना करणभूतेन दुर्नयप्ररूपणहेवाकखगेन, एवमित्यनुभवसिद्धं प्रकारमाह-अपिशब्दस्य भिन्नक्रमत्वाद् अशेपमपि जगदनिखिलमपि त्रैलोक्यम्-" तात्स्थ्यात् तव्यपदेशः" इति त्रैलोक्यगतजन्तुजातम्, विलुप्तं सम्यगजानादिभावप्राणव्यपरोपणेन व्यापादितम्, तत् त्रायस्व इत्याशयः । सम्यग्ज्ञानादयो हि भावप्राणाः प्राचनिकैर्गीयन्ते, अत एव सिद्धेप्वपि जीवव्यपदेशः । अन्यथा हि जीवैधातुः प्राणधारणार्थेऽभिधीयते, तेषां च दशविधप्राणधारणाभावाद् अजीवत्वप्राप्तिः, सा च विरुद्धा, तस्मात् संसारिणो
१ पातञ्जलयोगसूत्रम् ३।१३। अत्र ग्रन्थकृता 'टीकाकारोऽप्याह' इति यदुनं तच्चिन्त्यम् । यत इदं पातञ्जलसूत्रम् । मन्मतं तु कस्यापि लिपिकारस्य भ्रान्तिरियम् ।
२ 'मञ्चाः कोशन्ति' इतिवत् । यथात्र मञ्चपदेन मञ्चम्था गृह्यन्ते लक्षणया तद्वदत्र त्रैलोक्यपदेन त्रैलोक्यस्थं जन्तुजातं गृह्यन्ते । व्यपदेशः-संज्ञा ।।
३ सम्यक्ज्ञानसम्यग्दर्शनसम्यक्चारित्रेत्यादयो ये जीवस्य गुणास्ते भावप्राणाः । इदं प्रज्ञापनासूत्रे प्रथमपदे ।
४ प्रवचनकारिभिः पूर्वाचायः । ५ जीव् पाणधारणे हैमधातुपारायणे ग्वादिगणे धा, ४६५ ।