________________
२०५
.
स्याद्वादमञ्जरीसहिता
श्लोक २७
“ यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव सन्धत्ते कर्पासे रक्तता यथा"॥१॥ . इति वचनाद् ।
नासमञ्जसमित्यपि वाङ्मात्रम् , सन्तानवासनयोरवास्तवत्वेन प्रागेव निर्लोठितत्वात् । तथा पुण्यपापे अपि न घटेते-तयोहिं अर्थक्रिया सुखदुःखोपभोगः, तदनुपपत्तिश्चानन्तरमेवोक्ता ततोऽर्थक्रियाकारित्वाभावात् तयोरप्यघटमानत्वम् ।
किंचानित्यः क्षणमात्रस्थायी, तस्मिंश्च क्षणे उत्पत्तिमात्रव्यग्रत्वात् तस्य कुतः पुण्यपापोपादानक्रियार्जनम् द्वितीयादिक्षणेषु चावस्थातुमेव न लभते, पुण्यपापोपादानक्रियाभावे च पुण्यपापे कुतः । निर्मूलत्वात्, तदसत्त्वे च कुतस्तनः सुखदुःखभोगः। आस्तां वा कथंचिदेतत्, तथापि पूर्वक्षणसदृशेनोत्तरक्षणेन भवितव्यम् । उपादानानुरूपत्वाद् उपादेयस्य । ततः पूर्वक्षणाद् दुःखितात् उत्तरक्षणः कथं सुखित उत्पद्येत, कथं च सुखितात् ततः स दुःखितः स्यात्, विसदृशभागतापत्तेः। एवं पुण्यपापादावपि, तस्माद्यत्किञ्चिदेतत् । .
एवं बन्धमोक्षयोरप्यसंभवः-लोकेऽपि हि य एव बद्धः स एव मुच्यते, निरन्वयनाशाभ्युपगमे चैकाधिकरणत्वाभावात् सन्तानस्य चावास्तवत्वात् कुतस्तयोः संभावनामात्रमपीति । परिणामिनि चात्मनि स्वीक्रियमाणे सर्व निर्बाधमुपपद्यते"परिणामोऽवस्थान्तरगमनं न च सर्वथा ह्यवस्थानम् ।
न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः"॥१॥ इति वचनात् ।
पातञ्जलटीकाकारोऽप्याह