________________
श्लोक २७ अन्ययोगव्यवच्छेदिका
२०४ किंच, सुखदुःखभोगौ पुण्यपापनिर्वत्यौं, तन्निर्वर्तनं चार्थक्रिया, सा च कूटस्थनित्यस्य क्रमेण अक्रमेण वा नोपपद्यत इत्युक्तप्रायम् । अत एवोक्तं न पुण्यपापे इति पुण्यं दानादिक्रियोपार्जनीयं शुभं कर्म, पापं हिंसादिक्रियासाध्यमशुभं कर्म, ते अपि न घटेने प्रागुक्तनीतेः । तथा न बन्धमोक्षौ बन्धः कर्मपुद्गलैः सह प्रतिपदशमात्मनो वह्नययःपिण्डवद् अन्योऽन्यसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयः, तावप्येकान्तनित्ये न स्याताम् । वन्धो हि संयोगविशेषः म च “ अप्राप्तानां प्राप्तिः" इतिलक्षणः, प्राकालभाविनी अप्राप्तिरन्यावस्था,उत्तरकालभाविनी प्राप्तिश्चान्या। तदनयोरप्यवस्थाभेददोपो दुस्तरः। कथं चैकरूपत्वे सति तस्याकस्मिको बन्धनसंयोगः। बन्धनसंयोगाच्च प्राक् किं नायं मुक्तोऽभवत् । किंच तेन वन्धनेनामी विकृतिमनुभवति न वा । अनुभवति चेत्, चर्मादिवद् अनित्यः । नानुभवति चेत्, निर्विकारत्वे सता असता वा तेन गगनस्येव न कोऽप्यस्य विशेष इति बन्धवैफल्याद् नित्यमुक्त एव स्यात् । ततश्च विशीर्णा जगति बन्धमोक्षव्यवस्था । तथा च पठन्ति"वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् ?।
चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फलः" ॥१॥ बन्धानुपपत्तौ मोक्षस्याप्यनुपपत्तिवन्धनविच्छेदपर्यायत्वाद् मुक्तिशब्दस्यति।
एवमनित्यैकान्तवादेऽपि सुखदुःखाद्यनुपपत्तिः-अनित्यं हि अत्यन्तोच्छेदधर्मकम् तथाभूते चात्मनि, पुण्योपादानक्रियाकारिणो निरन्वयं विनष्टत्वात् कस्य नाम तत् फलभूतसुखानुभवः, एवं पापोपादानक्रियाकारिणोऽपि निरवयवनाशे कस्य दुःश्वसंवेदनमस्तु । एवं चान्यः क्रियाकारी अन्यश्च तत्फलभोक्ता इति असमञ्जसमापद्यते । अथ १ अग्नेरयोगोलकस्य च संयोगः ।