________________
स्याद्वादमञ्जरीसहिता
अनन्तरकाव्ये नित्यानित्याद्येकान्तवादे दोषसामान्यमभिहितम्, इदानीं कतिपयतद्विशेषान् नामग्राहं दर्शयंस्तत्प्ररूपकाणामसद्भूतोद्भावकतयोद्वृत्ततैथाविधरिषुजनजनितोपद्रवमिव परित्रातुर्धरित्रीपतेत्रिजगत्पतेः पुरतो भुवनत्रयं प्रत्युपकारकारितामाविष्करोतिनैकान्तवादे सुख-दुःखभोगौ
न पुण्य-पापेन च बन्ध - मोक्षौ ।
२०३
दुर्नीतिवादव्यसनासिनैवं
श्लोक २७
परैर्विलुप्तं जगदप्यशेषम् ॥ २७ ॥
एकान्तवादे नित्यानित्यैकान्तपक्षाभ्युपगमे, न सुखदुःखभोगौ घटेते, न च पुण्यपापे घटेते, न च बन्धमोक्षौ घटेते । पुनः पुनर्नञः प्रयोगोऽत्यन्ताऽघटमानतादर्शनार्थः । तथाहि - एकान्तान - त्ये आत्मनि तावत् सुखदुःखभोगौ नोपपद्येते -- नित्यस्य हि लक्षणम् अप्रच्युतानुत्पन्नास्थिरैकरूपत्वम्, ततो यदा आत्मा सुखमनुभूय स्वकारणकलापसामग्रीवशाद् दुःखमुपभुङ्क्ते तदा स्वभावभेदाद् अनित्यत्वापत्त्या स्थिरैकरूपताहानिप्रसङ्गः । एवं दुःखमनुभूय सुखमुपभुञ्जानस्यापि वक्तव्यम् |
अथ अवस्थाभेदाद अयं व्यवहारः, न चावस्थासु भिद्यमानास्वपि तद्वतो भेदः । सर्पस्येव कुण्डलार्जवाद्यवस्थासु इति चेत् न, तास्ततो व्यतिरिक्ताः, अव्यतिरिक्ता वा । व्यतिरेके, तास्तस्येति संबन्धाभावः, अतिप्रसङ्गात् । अव्यतिरेके तु तद्वानेवेति तदवस्थितैव स्थिरैकरूपताहानिः । कथं च तदेकान्तैकरूपत्वेऽवस्थाभेदोऽपि भवेदिति ।
१ नामग्रहणपूर्वकम् ।
२ ' उद्वृत्त' इति क . पुस्तके नास्ति । ३ आर्जवं सारल्यम् ।