________________
श्लोक २६ ___ अन्ययोगव्यवच्छेदिका प्लेदितीयादिक्षणेषु अकुवार्णस्यानित्यता बलाद् आढौकते । करणाकरणयोरेकस्मिन् विरोधाद् इति । तदेवमेकान्तद्वयेऽपि ये हेतवस्ते युक्तिसाम्याद् विरुद्धं न व्यभिचरन्तीत्यविचारितरमणीयतया मुग्धजनस्य ध्यान्ध्यं चोत्पादयन्तीति विरुद्धा व्यभिचारिणोऽनैकान्तिका इति । अत्र च नित्यानित्यैकान्तपक्षप्रतिक्षेप एवोक्तः । उपलक्षणत्वाच्चै सामान्यविशेषाद्यकान्तवादा अपि मिथस्तुल्यदोषतया विरुद्धा व्यभिचारिण एव हेतूनुपस्पृशन्तीति परिभावनीयम् । .
अथोत्तरार्द्ध व्याख्यायते-परस्परेत्यादि-एवं च कण्टकेषु क्षुद्रशत्रुष्वेकान्तवादिषु, परस्परध्वंसिषु सत्सु परस्परस्मात् ध्वसन्ते विनाशमुपयान्तीत्येवंशीलाः सुन्दोपसुन्दवदिति परस्परध्वंसिनस्तेषु, हे जिन ! ते तव शासनं स्याद्वादप्ररूपणनिपुणं द्वादशाङ्गीरूपं प्रवचनं पराभिभावुकानां कण्टकानां स्वयमुच्छिन्नत्वेनैवाभावाद् अधृष्यमपराभवनीयम् , "शक्तार्हे कृत्याश्च" । इति कृत्यविधानाद् धर्षितुमशक्यम् , धर्षितुमनर्ह वा-जयति सर्वोत्कर्पण वर्तते। यथा कश्चिन्महाराजः पीवरपुण्यपरीपाकः परस्परं विगृह्य स्वयमेव क्षयमुपेयिवत्सु द्विपत्सु अयत्नसिद्धनिष्कण्टकत्वं समृद्धं राज्यमुपभुञ्जानः सर्वोत्कृष्टो भवति एवं त्वच्छासनमपि । इति काव्यार्थः।२६।.
१ आढौकते-प्राप्नोति । २ ध्यान्ध्यं-धियः बुद्धेरान्ध्य-मान्यम् । ३ 'उपलक्षणत्वात्तु' इति क. पुस्तके पाठः ।
४ सुन्दोपसुन्दनामानौ राक्षसी द्वौ भ्रातरौ ब्रह्मणः सकाशात् वरं लब्धवन्तौ यत आवयोमृत्युः परस्परादस्तु नान्यस्मात् । तथेत्युक्ते ब्रह्मणा मत्तौ तौ त्रिलोकी पीडयामासतुः । अथ देवप्रेषितां तिलोत्तमामुपलभ्य तदर्थं मिथो युध्यमानावम्रियेताम् । एवमेकान्तवादिनः स्वतत्त्वसिद्धयर्थं परस्परं विवदमाना विनश्यन्ति । ततश्चानेकान्तवादो जयति । ५ हैमसूत्रम् '५।४।३५॥ ६ कृत्यः-कृत्यप्रत्ययः ।